Enter your Email Address to subscribe to our newsletters



नवदिल्ली, 13 जुलाईमासः (हि.स)।केन्द्रीयवित्तसम्पदां निगमकार्यमन्त्रिणी निर्मला सीतारमण सोमवासरे सार्वजनिकक्षेत्रीयबैङ्केभ्यः अनिवासीभारतीयेषु स्वसम्पर्कस्य विस्तारं कर्तुं विदेशीमुद्राप्रवाहस्य संवर्धनाय च नूतनानि अभिनवानि निक्षेपोत्पादानि प्रस्तोतुम् आह्वानम् अकरोत्। केन्द्रीयवित्तसम्पदां निगमकार्यमन्त्रिणी नवीदिल्लीनगरे सार्वजनिकक्षेत्रीयबैङ्कानां वित्तीयसंस्थानानां च प्रमुखैः सह आयोजितायां समीक्षोपवेशने एतदाह्वानम् अकरोत्। सीतारमण सार्वजनिकबैङ्कानां सार्वजनिकवित्तीयसंस्थानानां च प्रबन्धनिर्देशकान् मुख्यकार्यपालनाधिकरणाध्यक्षान् च सम्बोध्य धनसङ्ग्रहणस्य गतिं निरन्तरं धारयितुम् अनिवासीभारतीयेषु सम्पर्कविस्तारस्य आवश्यकता अपि प्रतिपादितवती। वित्तमन्त्रिणी उपवेशनस्य समये प्रारम्भिकप्रतिक्रियायाः उत्साहवर्धकं स्वरूपं प्रशंसितवती तथा च बैङ्केभ्यः अनिवासीभारतीयप्रवासिषु स्वसम्पर्कस्य अधिकविस्तारं कर्तुं अभिनवानि निक्षेपोत्पादानि प्रस्तोतुं योजनानां अवशिष्टावधौ धनसङ्ग्रहणस्य गतिं निरन्तरं धारयितुं च पुनराह्वानम् अकरोत्।
वित्तमन्त्रालयेन प्रकाशिते निवेदने उक्तं यत् केन्द्रीयवित्तसम्पदां निगमकार्यमन्त्रिणी निर्मला सीतारमण अद्य नवीदिल्लीनगरे सार्वजनिकक्षेत्रीयबैङ्कानां सार्वजनिकवित्तीयसंस्थानानां च प्रबन्धनिर्देशकैः मुख्यकार्यपालनाधिकरणाध्यक्षैः सह विदेशीमुद्रानिवासीबैङ्कनिक्षेपानाम् एफसीएनआर बी, बाह्यवाणिज्यिकऋणानाम् ईसीबी तथा विदेशीमुद्राउधारस्वैपपहलानाम् ओएफसीबी विषये विचारविमर्शम् अकरोत्। मन्त्रालयस्य अनुसारम् अस्मिन् उपवेशने सार्वजनिकक्षेत्रीयबैङ्कानां निजीवित्तीयसंस्थानानां च प्रबन्धनिर्देशकाः मुख्यकार्यपालनाधिकरणाध्यक्षाश्च केन्द्रीयवित्तमन्त्रिणीं एफसीएनआर बी निक्षेपानाम् ईसीबी तथा ओएफसीबी विषये भारतीयरिजर्वबैङ्कस्य स्वैपसुविधायोजनानां अन्तर्गतया प्राप्तां प्रगतिम् अवेदयन्।
वित्तमन्त्रालयस्य अनुसारम् अस्मिन् उपवेशने वित्तीयसेवाविभागस्य आर्थिककार्यविभागस्य राजस्वविभागस्य च सचिवाः मुख्यार्थिकपरामर्शदाता भारतीयरिजर्वबैङ्कस्य उपराज्यपालः अन्ये वरिष्ठाधिकारिणश्च उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani