राजकीय-आयुर्वेदिक-चिकित्सालये कण्डोलीस्थस्य आयुर्वेदोत्कर्ष-केन्द्रस्य मन्त्रीणा जोशिना कृतम् उद्घाटनम्
देहरादूननगरम्, १३ जुलाईमासः (हि.स.)। उत्तराखण्डस्य मन्त्रिमण्डलमन्त्री गणेशजोशी सोमवासरे कण्डोलीस्थिते राजकीय-आयुर्वेदिक-चिकित्सालये नवनिर्मितस्य आयुर्वेदोत्कर्ष-केन्द्रस्य सूत्रकर्तनं कृत्वा विधिवद् उद्घाटनम् अकरोत्। अस्मिन् अवसरे तेन आयुर्वेदोत्क
राजकीय आयुर्वेदिक चिकित्सालय कंडोली का उद्घाटन  करते मंत्री जोशी।


देहरादूननगरम्, १३ जुलाईमासः (हि.स.)। उत्तराखण्डस्य मन्त्रिमण्डलमन्त्री गणेशजोशी सोमवासरे कण्डोलीस्थिते राजकीय-आयुर्वेदिक-चिकित्सालये नवनिर्मितस्य आयुर्वेदोत्कर्ष-केन्द्रस्य सूत्रकर्तनं कृत्वा विधिवद् उद्घाटनम् अकरोत्। अस्मिन् अवसरे तेन आयुर्वेदोत्कर्ष-केन्द्रस्य अवलोकनं कृत्वा तत्र उपलब्धानां स्वास्थ्यसुविधानां व्यवस्थायाश्च विषये सूचना गृहीता। एतदतिरिक्तं तेन सामुदायिक-भवने आयोजितस्य निःशुल्क-चिकित्सा-शिविरस्य अपि उद्घाटनम् अकरोत्।

अस्मिन् अवसरे मन्त्रिमण्डलमन्त्री गणेशजोशी क्षेत्रवासिभ्यः शुभकामनाः प्रदाय अवदत् यत् आयुर्वेदः भारतस्य प्राचीना चिकित्सापद्धतिः अस्ति, या शताब्दीभ्यः जनान् स्वस्थजीवनस्य मार्गं प्रदर्शयति। तेन उक्तं यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे आयुर्वेदस्य भारतीय-पारम्परिक-चिकित्सापद्धतीनां च वैश्विकी मान्यता प्राप्ता अस्ति। राज्यसर्वकारोऽपि मुख्यमन्त्रिणः पुष्करसिंहधामिनः नेतृत्वे आयुष-सेवानां सुदृढीकरणाय निरन्तरं कार्यं करोति।

सः अवदत् यत् आयुर्वेदोत्कर्ष-केन्द्रस्य स्थापनया क्षेत्रस्य जनेभ्यः उत्तमाः स्वास्थ्यसुविधाः उपलब्धाः भविष्यन्ति। गुणवत्तायुक्तः आयुर्वेदिक-उपचारः, परामर्शः, औषधानि च स्थानीयस्तरे एव सुलभानि भविष्यन्ति। तेन विश्वासः व्यक्तीकृतः यत् एतत् केन्द्रं जनस्वास्थ्यस्य क्षेत्रे महत्त्वपूर्णां भूमिकां निर्वहिष्यति तथा जनानाम् आयुर्वेदे विश्वासः अधिकं दृढो भविष्यति।

अस्मिन् अवसरे तेन चिकित्सकेभ्यः स्वास्थ्यकर्मिभ्यश्च रोगिभ्यः समर्पितभावेन उत्कृष्टाः सेवाः प्रदातुम् आह्वानं कृतम्। सः अवदत् यत् जनसेवायाः एव सर्वोत्तमा सेवा अस्ति तथा प्रत्येकं जनं प्रति गुणवत्तायुक्ताः स्वास्थ्यसुविधाः प्रापयितुं सर्वकारस्य प्राधान्यं वर्तते।

कार्यक्रमे भाजपायाः मण्डलाध्यक्षः प्रदीपरावतः, निरञ्जनडोभालः, अरविन्द-डोभालः, आयुर्वेद-यूनानी-अधिकारिणी सविताकोटियाल, हिमानीडङ्गवाल, विभागीय-अधिकारिणः, चिकित्सकाः, जनप्रतिनिधयः तथा क्षेत्रवासिनः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan