450 मेगावाट शोंगटोंग-कड़छम जलविद्युत् परियोजनायै मार्च-अप्रैल 2027 यावत् शुभारब्धुं लक्ष्यम्
शिमला, 13 जुलाईमासः (हि.स.)। हिमाचलप्रदेशसर्वकारेण किन्नौरजनपदे निर्माणाधीना चतुःशतपञ्चाशत् मेगावाट क्षमतायुक्ता शोंगटोंग कडछम जलविद्युत्परियोजना मार्च अप्रैल २०२७ पर्यन्तं कार्यारम्भाय लक्ष्यं निर्धारितम्। मुख्यमन्त्री सुखविन्द्रसिंहसुक्खुः सोमव
मुख्यमंत्री बैठक की समीक्षा करते हुए


शिमला, 13 जुलाईमासः (हि.स.)।

हिमाचलप्रदेशसर्वकारेण किन्नौरजनपदे निर्माणाधीना चतुःशतपञ्चाशत् मेगावाट क्षमतायुक्ता शोंगटोंग कडछम जलविद्युत्परियोजना मार्च अप्रैल २०२७ पर्यन्तं कार्यारम्भाय लक्ष्यं निर्धारितम्। मुख्यमन्त्री सुखविन्द्रसिंहसुक्खुः सोमवासरे ऊर्जाविभागस्य उच्चस्तरीयसमीक्षोपवेशने अधिकारिणः निर्माणकार्ये शीघ्रतां कर्तुं निर्देशान् अददात्। तेन उक्तं यत् एषा परियोजना प्रदेशस्य विद्युतुत्पादनक्षमतां वर्धयित्वा स्वच्छऊर्जाक्षेत्रम् अपि सुदृढं करिष्यति।

उपवेशने मुख्यमन्त्री अवदत् यत् परियोजनायाः शक्तिगृहस्य प्रायः अशीतिप्रतिशतं निर्माणकार्यं सम्पन्नं जातम्। तेन उक्तं यत् वर्तमानवर्षाकाले अपि बन्धनिर्माणकार्यं निरन्तरं प्रवर्तिष्यते। एतदर्थं सतलुजनद्याः जलप्रवाहः द्वारसङ्ख्या चत्वारि पञ्च च इत्येताभ्यां परिवर्तितः भविष्यति, यदा तु डायवर्जन बे इत्यस्य द्वारसङ्ख्या एक द्वे त्रीणि च इत्येषु एककाले एव निर्माणकार्यं प्रवर्तिष्यते।

मुख्यमन्त्री अवदत् यत् राज्यसर्वकारः स्वच्छऊर्जासम्बद्धायाः आधारभूतसंरचनायाः सुदृढीकरणाय सततविकासस्य प्रवर्धनाय च दृढसंकल्पितः अस्ति। तस्य अनुसारेण तकनीकीभौगोलिकचुनौत्योः उपस्थितयोः अपि परियोजनायाः निरन्तरम् अनुश्रवणं क्रियते तथा स्थलस्य परिस्थितीनाम् अनुरूपाणि अभियान्त्रिकी उपायाः स्वीकृताः सन्ति। अस्य कारणात् परियोजनायाः अशीतिप्रतिशताधिकं कार्यं सम्पन्नं जातम्।

**सर्वकारस्य अनुसारेण परियोजनायाः कार्यारम्भानन्तरं प्रतिवर्षं प्रायः एकसहस्रं पञ्चशतानि एकोनाशीत्यधिकानि नव मिलियन यूनिट परिमिताया विद्युतः उत्पादनस्य सम्भावना अस्ति। अनेन प्रदेशस्य ऊर्जाक्षमता वर्धिष्यते तथा विद्युत्जालस्य स्थैर्यम् अपि सुदृढं भविष्यति। सर्वकारस्य अनुमानेन अस्याः परियोजनायाः माध्यमेन हिमाचलप्रदेशस्य अर्थव्यवस्थायै प्रतिवर्षं प्रायः नवशतकोटिरूप्यकाणां योगदानं भविष्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani