बांकुड़ायाः हाटग्रामस्य पारंपरिक शंख कलायै अमिलत् जीआईमान्यता
बांकुड़ा, 13 जुलाईमासः (हि. स.)। जिलायाः प्रायः त्रिशतवर्षप्राचीना हाटग्रामस्य पारम्परिका शङ्खकला भौगोलिकसंकेतकस्य (जीआई) मान्यतां प्राप्तवती। अस्याः उपलब्धेः कारणेन शङ्खकलाकारेषु शिल्पिषु च हर्षोल्लासस्य वातावरणं वर्तते। ते च मन्यन्ते यत् अस्याः
सूक्ष्म नक्काशी से सुसज्जित हाटग्राम की शंख कलाकृतियां


सूक्ष्म नक्काशी से सुसज्जित हाटग्राम की शंख कलाकृतियां


सूक्ष्म नक्काशी से सुसज्जित हाटग्राम की शंख कलाकृतियां


बांकुड़ा, 13 जुलाईमासः (हि. स.)।

जिलायाः प्रायः त्रिशतवर्षप्राचीना हाटग्रामस्य पारम्परिका शङ्खकला भौगोलिकसंकेतकस्य (जीआई) मान्यतां प्राप्तवती। अस्याः उपलब्धेः कारणेन शङ्खकलाकारेषु शिल्पिषु च हर्षोल्लासस्य वातावरणं वर्तते। ते च मन्यन्ते यत् अस्याः मान्यतायाः प्रभावेण एषा पारम्परिका कला अन्तरराष्ट्रीयस्तरे नूतनाम् अभिज्ञातिं प्राप्स्यति। हाटग्राम शङ्खवणिककल्याणसमित्या वर्षे २०२२ तमे अस्य पारम्परिकशिल्पस्य जीआई मान्यताप्राप्त्यर्थम् आवेदनं कृतम् आसीत्। दीर्घकालीनप्रयत्नानन्तरम् इदानीम् अस्यै औपचारिका मान्यता प्राप्ता।

बाङ्कुडाजनपदस्य इन्दपुरविकासखण्डे स्थितः हाटग्रामः राज्यस्य प्रमुखेषु शङ्खशिल्पकेन्द्रेषु अन्यतमः अस्ति। एतदतिरिक्तं बाङ्कुडानगरस्य शङ्खारीपाडा, विष्णुपुर, शासपुर तथा रायबाघिनी क्षेत्रेषु अपि अनेकानि कुलानि पीढीपरम्परया एतां परम्पराम् अग्रे नयन्ति। विशेषतः शङ्खेषु सूक्ष्मनक्काश्याः मूर्तिशिल्पनिर्माणस्य च क्षेत्रे हाटग्रामस्य शिल्पिनां विशिष्टा ख्यातिः वर्तते।

हाटग्रामे प्रायः त्रिशतं शङ्खारिकुलानि प्रत्यक्षरूपेण अस्मिन् शिल्पे संलग्नानि सन्ति। कालेन सह अत्रत्यायां शङ्खकलायाम् आधुनिकताया अपि समावेशः अभवत्। पारम्परिकशङ्खानां हस्तधारणीयशङ्खवलयानां च सह गृहालङ्कारार्थम् अनेकाश्च कलात्मकाः वस्तुविशेषाः अपि निर्मीयन्ते।

अस्य शिल्पस्य कृते कच्चशङ्खाः मुख्यतया दक्षिणभारतात् आनियन्ते। शिल्पिनः प्रथमं शङ्खेषु लेखन्या रूपरेखां निर्माय ततः विशेषनक्काशीयन्त्राणां साहाय्येन तेषु सूक्ष्मकारीगर्यां कुर्वन्ति। पूर्वं एतत् कार्यं छेनीबट्टालीसाधनाभ्यां क्रियते स्म, किन्तु अधुना आधुनिकोपकरणानाम् उपयोगः वर्धितः अस्ति।

हाटग्रामस्य शिल्पिनः रामायणमहाभारतपुराणानां प्रसङ्गान् मानवसभ्यतायाः विकासं साक्षरतां पर्यावरणसंरक्षणं समकालीनसामाजिकसन्देशान् च शङ्खेषु उत्कीर्णयन्ति। विगतवर्षेषु शङ्खेषु त्रिआयामीयजालिकानक्काश्याः नूतना प्रविधिः अपि विशेषम् आकर्षणम् उत्पादितवती।

शिल्पिनां मते सम्पूर्णकलात्मकशङ्खस्य निर्माणे षड्दिनात् आरभ्य त्रिमासपर्यन्तं कालः अपेक्षितः भवति। पश्चिमबङ्गराज्यात् अतिरिक्तं झारखण्डबिहारओडिशाराज्येभ्यः अपि व्यापारीणः अत्र आगत्य शङ्खनिर्मितवस्तूनां क्रयं कुर्वन्ति। राज्यसर्वकारस्य विविधेषु विपणनकेन्द्रेषु अपि एतेषां उत्पादानाम् आपूर्तिः क्रियते।

राष्ट्रपतिपुरस्कारप्राप्तः शङ्खशिल्पी बाबलूनन्दी अवदत् यत् जीआई मान्यता अनेकपीढीनां साधनायाः सम्मानः अस्ति तथा च अस्याः प्रभावेण हाटग्रामस्य शङ्खकला वैश्विकस्तरे नूतनाम् अभिज्ञातिं प्राप्स्यति।

बाङ्कुडाजनपदस्य शिल्पी सङ्गीतसिंहः अवदत् यत् हाटग्रामस्य शङ्खकला केवलं हस्तशिल्पं न, अपितु बङ्गप्रदेशस्य धार्मिकसामाजिकसांस्कृतिकपरम्परायाः महत्त्वपूर्णा धरोहरः अस्ति। तस्य मते जीआई मान्यतया अस्य शिल्पस्य कानूनी संरक्षणं भविष्यति तथा च शिल्पिनाम् आर्थिकविकासस्य नूतनाः अवसराः उद्घाटिताः भविष्यन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani