Enter your Email Address to subscribe to our newsletters

नवदेहली, १३ जुलाईमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी कोलम्बियादेशस्य बुकारामाङ्गा-नगरे आयोजिते षट्पञ्चाशत्तमे अन्ताराष्ट्रिय-भौतिकी-ओलम्पियाडस्पर्धायां स्वर्णपदकं विजित्य यशः प्राप्तवतः भारतीयदलस्य सर्वान् पञ्च छात्रान् अभिनन्दितवान्। तेन उक्तं यत् एषा तेषां उपलब्धिः भारतस्य युवाशक्तेः असीमसामर्थ्यस्य तथा विज्ञान-अनुसन्धाने प्रति तेषां गाढसमर्पणस्य प्रमाणम् अस्ति।
प्रधानमन्त्री सोमवासरे सामाजिक-माध्यममञ्चे एक्स इत्यत्र प्रकाशिते सन्देशे कनिष्क-जैन:, ऋद्धेश-अनन्त-बेन्दले, ऋषित-गर्ग:, श्रेष्ठ-सुरैया तथा स्वरित-जोशी इत्येतेभ्यः तेषां उत्कृष्टसफलतायै शुभकामनाः प्रदत्तवान्। सः अवदत् यत् एतेषां विद्यार्थिनां उत्कृष्टप्रदर्शनं समग्रदेशस्य गौरवस्य विषयः अस्ति।
मोदी अवदत् यत् भारतीयविद्यार्थिनामियं उपलब्धिः पुनरेकवारं सिद्धयति यत् देशस्य युवा-प्रतिभाः विज्ञान-अनुसन्धानयोः क्षेत्रे वैश्विकस्तरे स्वकीयां विशिष्टां परिचितिं निर्मान्ति। तेन विश्वासः व्यक्तीकृतः यत् एतेषां छात्राणां सफलता देशस्य अन्यान् युवानः अपि विज्ञान-नवोन्मेषयोः क्षेत्रे अग्रे गन्तुं प्रेरयिष्यति।
प्रधानमन्त्री अवदत् यत् गतदशवर्षेषु अन्ताराष्ट्रिय-भौतिकी-ओलम्पियाड-स्पर्धाया: विविधेषु संस्करणेषु भारतीय-विद्यार्थिनां प्रदर्शनं निरन्तरम् उत्कृष्टं वर्तते। एतत् देशे वैज्ञानिक-प्रतिभायाः निरन्तर-विकासस्य गुणवत्तायुक्त-शिक्षायाश्च परिचायकम् अस्ति।
उल्लेखनीयं यत् षट्पञ्चाशत्तमस्य अन्ताराष्ट्रिय-भौतिकी-ओलम्पियाड-स्पर्धाया: (२०२६) आयोजनं कोलम्बिया-देशस्य बुकारामाङ्गा-नगरे अभवत्, यत्र भारतीयदलस्य सर्वे पञ्च प्रतिभागिनः स्वर्णपदकानि विजित्य राष्ट्रस्य गौरवं वर्धितवन्तः।
Hindusthan Samachar / Divya Ranjan