Enter your Email Address to subscribe to our newsletters

- भारत-अमेरिकयोर्मध्ये सामरिकी सांस्कृतिकसहकारिता दृढीकृता
नव दिल्ली, 13 जुलाईमासः (हि.स.)। भारतीयनौसेनायाः नौकायनप्रशिक्षणपोतः आईएनएस सुदर्शनी अमेरिकादेशस्य स्वातन्त्र्यस्य द्विशतपञ्चाशत्तमवर्षगाँठोत्सवे सहभागितां कृत्वा बोस्टननगरम् आगतः। पोतेन सेल बोस्टन महोत्सवस्य शुभारम्भावसरे गौरवेण भारतीयतिरङ्गध्वजः उद्घोषितः तथा ग्राण्ड परेड आफ सेल्स इति समुद्रयात्रायां सहभागिता कृता। प्रशिक्षणपोतः कैसलद्वीपं सीपोर्टडिस्ट्रिक्टम् इत्यादीनि प्रमुखस्थानानि अतिक्रम्य अन्ते बोस्टनफिशपियर इति स्थले स्थितः। बोस्टनस्थितः भारतस्य महावाणिज्यदूतः रघुरामशास्त्री ग्राण्ड परेड आफ सेल्स इति कार्यक्रमे सहभागिताम् अकरोत् तथा बोस्टननगरे पोतस्य औपचारिकप्रवेशार्थम् आईएनएस सुदर्शनी इत्यस्मिन् आरुरोह। आईएनएस सुदर्शनी विंशत्यधिकदेशानां षष्ट्यधिकमहापोतसमन्विते अन्तरराष्ट्रीयनौकाबले सम्मिलित्वा सामुद्रिकाभियानकाले सद्भावनायाः सामुद्रिकदूतरूपेण भारतस्य प्रतिनिधित्वम् अकरोत्। सामुद्रिककूटनीतिः, अन्तरराष्ट्रीयसद्भावना, सांस्कृतिकविनिमयः च प्रति भारतीयनौसेनायाः प्रतिबद्धतां सुदृढीकुर्वन् अयं पोतः द्वादशदिनात् पञ्चदशदिनपर्यन्तम् आगन्तुकेभ्यः उद्घाटितः भविष्यति। अमेरिकादेशस्य नॉरफॉक, बाल्टीमोर तथा न्यूयॉर्कनगरेषु सफलपोर्टकॉलानन्तरम् आईएनएस सुदर्शनी इत्यस्य सेल बोस्टन २०२६ इति महोत्सवे सहभागिता भारतअमेरिकयोः वर्धमानां सामुद्रिकसहभागितां अधिकं सुदृढां करोति। भारतीयपोतः सुदर्शनी वैश्विकमञ्चे भारतस्य समृद्धां सामुद्रिकपरम्परां प्रदर्शितवान्। अमेरिकादेशस्य स्वातन्त्र्यस्य द्विशतपञ्चाशत्तमवर्षगाँठोत्सवस्य अवसरे आयोजिते अन्तरराष्ट्रीयनौसैनिकपरेडकार्यक्रमे भारतीयनौसेनायाः नौकायनप्रशिक्षणपोतः आईएनएस सुदर्शनी भारतस्य प्रतिनिधित्वम् अकरोत्। अनेन पोतेन महासागरपारसामुद्रिकाभियानस्य अन्तर्गतं न्यूयॉर्कपोर्टकॉलः सम्पन्नः तथा भारतस्य समृद्धा सामुद्रिकपरम्परा प्रदर्शिता। तेन सह भारतअमेरिकयोः सामरिकसांस्कृतिकसहभागिता अपि अधिकं सुदृढा कृता।
--------------
Hindusthan Samachar / Dheeraj Maithani