यमुनानगरम् : पूर्व एचएसएससी-अध्यक्षः भोपाल सिंह खदरी जातो मुख्यमंत्रिणो विशेषः परिवादानां निवारण-अधिकारी
यमुनानगरम्, 13 जुलाईमासः मासः(हि.स.)। हरियाणासर्वकारेण हरियाणाकर्मचारीचयनआयोगस्य पूर्वाध्यक्षः यमुनानगरजिलान्तर्गतस्य खदरीग्रामनिवासी भोपालसिंहखदरी मुख्यमन्त्रिणः विशेषपरिवादनिवारणाधिकारी इति पदे नियुक्तः। अस्य विषये हरियाणायाः मुख्यसचिवेन अनुराग
हरियाणा के मुख्यमंत्री के साथ भोपाल खदरी


यमुनानगरम्, 13 जुलाईमासः मासः(हि.स.)।

हरियाणासर्वकारेण हरियाणाकर्मचारीचयनआयोगस्य पूर्वाध्यक्षः यमुनानगरजिलान्तर्गतस्य खदरीग्रामनिवासी भोपालसिंहखदरी मुख्यमन्त्रिणः विशेषपरिवादनिवारणाधिकारी इति पदे नियुक्तः। अस्य विषये हरियाणायाः मुख्यसचिवेन अनुरागरस्तोगिना १२ जुलैदिनाङ्के नियुक्त्यादेशः निर्गतः।

निर्गते आदेशे उक्तं यत् भोपालसिंहखदरेः नियुक्तिः अस्थाय्याधारे कृता अस्ति। आदेशे स्पष्टतया निर्दिष्टं यत् सः तावत्कालं यावत् मुख्यमन्त्री तस्मिन् दायित्वे तं स्थापयितुं समुचितं मन्यते तावत् अस्मिन् पदे कार्यं करिष्यति। तस्य वेतनम्, भत्ताः, सेवासम्बद्धाः अन्याः शर्ताश्च पृथक् निर्गम्यमाणेन आदेशेन सूचयिष्यन्ते।

भोपालसिंहखदरी एतस्मात् पूर्वं हरियाणाकर्मचारीचयनआयोगस्य अध्यक्षरूपेण स्वीयाः सेवाः प्रदत्तवान्। सः २३ मार्च २०२१ दिनाङ्के आयोगस्य अध्यक्षः नियुक्तः आसीत्। तस्य कार्यकालः २३ मार्च २०२४ दिनाङ्कपर्यन्तं निर्धारितः आसीत्, किन्तु सः कार्यकालस्य समापनात् पूर्वमेव १५ मार्च २०२४ दिनाङ्के स्वपदात् त्यागपत्रम् अर्पितवान्। अनन्तरं सर्वकारेण हिम्मतसिंहः आयोगस्य नूतनाध्यक्षः नियुक्तः।

प्रशासनिकसङ्गठनात्मकानुभवस्य कारणात् भोपालसिंहखदरी दीर्घकालात् भाजपानेतृत्वस्य विश्वसनीयमुखेषु परिगण्यते। सः दिवङ्गतस्य भाजपासांसदस्य रतनलालकटारियस्य राजनैतिकसचिवः अपि आसीत्। एतदतिरिक्तं पूर्वमुख्यमन्त्रिणा मनोहरलालेन सह अपि तेन निकटतया कार्यं कृतम्।

साधारणकृषकपरिवारात् आगतः भोपालसिंहखदरी स्वस्य सार्वजनिकजीवनस्य प्रारम्भं ग्रामस्य सरपञ्चरूपेण अकरोत्। ततः परं सः हरियाणाकर्मचारीचयनआयोगस्य सदस्यः अभवत्, अनन्तरं आयोगस्य अध्यक्षपदं प्राप्तवान्। तेन स्नातकोत्तरपदवी एमए तथा एलएलबी इति शिक्षा प्राप्ता। अधुना मुख्यमन्त्रिणः विशेषपरिवादनिवारणाधिकारीरूपेण तस्मै प्रशासनिकव्यवस्थायां महत्त्वपूर्णं दायित्वं समर्पितम् अस्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani