Enter your Email Address to subscribe to our newsletters

दरभङ्गानगरम्, १३ जुलाईमासः (हि.स.)। ललित-नारायण-मिथिला-विश्वविद्यालयस्य दर्शनशास्त्र-विभागस्य तत्त्वावधाने जुबिली-सभागारे सोमवासरे भारतीय-दार्शनिक-अनुसन्धान-परिषदः, भारत-सर्वकारस्य शिक्षा-मन्त्रालयेन प्रायोजिता साक्षात्-पद्धत्याः राष्ट्रीय-सङ्गोष्ठी आयोजिता।
सङ्गोष्ठ्याः विषयः आसीत्— “योगस्य माध्यमेन आरोग्यम् आनन्दश्च : भारतीय-ज्ञान-परम्परायाः अन्तर्निहिता प्रज्ञा।” कार्यक्रमस्य अध्यक्षतां विश्वविद्यालयस्य कुलपतिः प्रो.संजय-कुमार-चौधरी अवहत्।
स्वाध्यक्षीय-सम्बोधने कुलपतिः प्रो. संजय-कुमार-चौधरी अवदत् यत् योगः केवलं शारीरिक-व्यायामः न, अपितु जीवन-यापनस्य समग्र-पद्धतिः अस्ति। योगः अस्मान् कर्म एव धर्मः इति भावनया प्रेरयति।
सः अवदत् यत् यदि योगः जनं जनं प्रति प्राप्य जीवनस्य अभिन्न-अङ्गतया स्वीकृतः भवेत्, तर्हि वर्षे २०४७ पर्यन्तं विकसित-भारतस्य निर्माण-स्वप्नं साकारं भविष्यति। योगः लोभ-मोह-क्रोध-भय-चिन्ता-मानसिक-अशान्तीनां नियन्त्रणस्य प्रभावात्मकं माध्यमम् अस्ति तथा च शरीर-मनसोरात्मनश्च समन्वयस्य विज्ञानम् अस्ति। तेन विश्वविद्यालये एनएसएस तथा आर्ट-ऑफ-लिविङ्गसंस्थया सह पञ्च-दिवसीय-योग-व्यक्तित्व-विकास-शिविरस्य आयोजनाय निर्देशः अपि प्रदत्तः।
मुख्य-वक्त्री मगध-विश्वविद्यालयस्य पूर्व-प्रतिकुलपतिः तथा दर्शनशास्त्र-विभागस्य पूर्वाध्यक्षा प्रो. कुसुम-कुमारी अवदत् यत् मिथिला सदा विदुषां भूमिः आसीत् तथा योगः अस्माकं प्राचीन-सांस्कृतिक-परम्परायाः अभिन्नम् अङ्गम् अस्ति। योगः आत्मशुद्धेः, मनोनिग्रहस्य तथा मोक्ष-मार्गस्य प्रशस्तकर्ता अस्ति। सः मनुष्यं शारीरिक-मानसिक-सामाजिक-आध्यात्मिक-दृष्ट्या समृद्धं करोति।
बेनीपुर-विधानसभा-क्षेत्रस्य विधायकः प्रो. विनय-कुमार-चौधरी अवदत् यत् बिहारस्य योग-परम्परा अत्यन्तं समृद्धा अस्ति। नियमित-योगाभ्यासेन शरीरं स्वस्थं, मनः स्थिरं, स्मरण-शक्तिः च प्रखरा भवति। तेन विश्वविद्यालये स्नातकोत्तर-शिक्षायाः तथा विज्ञान-शिक्षायाः विस्तारार्थं कुलपतिना क्रियमाणानां प्रयासानां प्रशंसा कृता।
आर्ट-ऑफ-लिविङ्ग-संस्थायाः बिहार-प्रभारी आनन्द-प्रकाश-राय: सकारात्मक-चिन्तनस्य मानसिक-सन्तुलनस्य च कृते योगस्य उपयोगितां प्रकाशयन् विश्वविद्यालये पञ्च-दिवसीय-योग-शिविरस्य आयोजनाय सहमतिं प्रदत्तवान्। विशिष्ट-वक्ता डॉ. रुद्रकान्त-अमर अवदत् यत् समग्रा भगवद्गीता योगमयी अस्ति तथा गीता कर्मणि कौशलं जीवने च सन्तुलनस्य सन्देशं ददाति।
कार्यक्रमस्य शुभारम्भः दीप-प्रज्वलनेन, कुलगीतेन, स्मारिका-विमोचनेन च अभवत्। विभागाध्यक्षा डॉ. शिखर-वासिनी अतिथीनां स्वागतं कृतवती, डॉ. आर.एन. चौरसिया धन्यवाद-ज्ञापनम् अकरोत्। सङ्गोष्ठ्याः चतुर्षु प्राविधिक-सत्रेषु द्विशताधिकानि शोध-पत्राणि प्रस्तुतानि। संयोजिका डॉ. प्रियङ्का-राय: अवदत् यत् देशस्य विभिन्न-राज्येभ्यः ४२५ अधिकाः अध्यापकाः, शोधार्थिनः, विद्यार्थिनश्च अन्तर्जाल-साक्षात्-माध्यमाभ्यां सहभागिताम् अकुर्वन्। सर्वेभ्यः प्रतिभागिभ्यः प्रमाणपत्राणि अपि प्रदास्यन्ते।
Hindusthan Samachar / Divya Ranjan