श्रावणी मेला : महादेवशालस्थानके 22 युगलानां ट्रेनयानानां भविष्यति अस्थायिनी अवस्थितिः
चक्रधरपुरम्, 13 जुलाईमासः(हि.स.)। श्रावणीमेलायाः अवधौ महादेवशालमन्दिरम् आगच्छतां श्रद्धालूनां सुविधां दृष्ट्वा दक्षिणपूर्वरेलवेमण्डलस्य चक्रधरपुरमण्डलेन महादेवशाल (एमएक्सडब्ल्यू) रेलस्थानके २२ युगलयात्रीरेलयानानां कृते अस्थायिविरामस्य व्यवस्था कृता
प्रतीकात्मक फोटो


चक्रधरपुरम्, 13 जुलाईमासः(हि.स.)। श्रावणीमेलायाः अवधौ महादेवशालमन्दिरम् आगच्छतां श्रद्धालूनां सुविधां दृष्ट्वा दक्षिणपूर्वरेलवेमण्डलस्य चक्रधरपुरमण्डलेन महादेवशाल (एमएक्सडब्ल्यू) रेलस्थानके २२ युगलयात्रीरेलयानानां कृते अस्थायिविरामस्य व्यवस्था कृता। सक्षमप्राधिकरणस्य अनुमोदनानन्तरम् एषः निर्णयः स्वीकृतः, येन श्रावणीमेलायाम् अधिकसंख्यया समागच्छतां श्रद्धालूनां यात्रासुविधा सुनिश्चिता भविष्यति।

रेलवेप्रशासनेन उक्तं यत् महादेवशालरेलस्थानके एतेषां रेलयानानां द्विद्विमिनिटपरिमितः अस्थायिविरामः ३० जुलै २०२६ दिनाङ्कात् २८ अगस्त २०२६ दिनाङ्कपर्यन्तं प्रभावी भविष्यति। अस्मिन् अवधौ विविधाः एक्स्प्रेस-मेमू-रेलयानाः निर्धारितसमयानुसारं महादेवशालरेलस्थानके विरमिष्यन्ति, येन श्रद्धालवः सुप्रसिद्धं महादेवशालमन्दिरम् अनायासेन प्राप्स्यन्ति। एषा सूचना सोमवासरे दक्षिणपूर्वरेलवे, चक्रधरपुरमण्डलस्य जनसम्पर्काधिकारी-सह-वरिष्ठमण्डलवाणिज्यप्रबन्धकेन प्रकाशितायां प्रेसविज्ञप्तौ प्रदत्ता।

सः अवदत् यत् अस्थायिविरामं प्राप्नुवन्तीषु रेलयानेषु बीएमपीआर-राउरकेला साप्ताहिकएक्स्प्रेस, दानापुर-दुर्ग एक्स्प्रेस, हावडा-टिटलागढ इस्पातएक्स्प्रेस, हावडा-कान्ताबांजी इस्पातएक्स्प्रेस, पुरी-योगनगरी ऋषिकेश एक्स्प्रेस, सम्बलेश्वरी एक्स्प्रेस, टाटानगर-एर्नाकुलम् एक्स्प्रेस, टाटानगर-इतवारी एक्स्प्रेस, टाटानगर-बिलासपुर एक्स्प्रेस, चक्रधरपुर-राउरकेला सरण्डा मेमू, टाटानगर-राउरकेला मेमू च सहिताः समग्रतया २२ युगलरेलयानानि समाविष्टानि सन्ति।

दक्षिणपूर्वरेलवेप्रशासनेन यात्रिभ्यः अनुरोधः कृतः यत् ते यात्रायाः अवधौ वैधयात्रापत्रं गृहीत्वैव यात्रां कुर्वन्तु तथा सुरक्षितां सुगमां च यात्रां सुनिश्चितीकर्तुं रेलवेकर्मचारिणां सहयोगं कुर्वन्तु।---------------

Hindusthan Samachar / Dheeraj Maithani