भोपालनगरे अद्य देश-विदेशयोः प्रौद्योगिकीक्षेत्रस्य अग्रणीविशेषज्ञाः समागमिष्यन्ति, अर्धचालक-दत्तांशकेन्द्र-वैश्विकक्षमताकेन्द्रेषु निवेशविषये विमर्शः भविष्यति
भोपालम्, १३ जुलाईमासः (हि.स.)। मध्यप्रदेशस्य राजधान्यां भोपाले अद्य एमपी टेक ग्रोथ कॉन्क्लेव ३.० इति कार्यक्रमस्य आयोजनं भविष्यति। अस्मिन् सम्मेलने अर्धचालक-प्रौद्योगिकी, दत्तांशकेन्द्राणि तथा वैश्विकक्षमताकेन्द्रेषु निवेशविषये विस्तृतः विमर्शः भवि
एमपी टेक ग्रोथ कॉन्क्लेव 3.0


भोपालम्, १३ जुलाईमासः (हि.स.)। मध्यप्रदेशस्य राजधान्यां भोपाले अद्य एमपी टेक ग्रोथ कॉन्क्लेव ३.० इति कार्यक्रमस्य आयोजनं भविष्यति। अस्मिन् सम्मेलने अर्धचालक-प्रौद्योगिकी, दत्तांशकेन्द्राणि तथा वैश्विकक्षमताकेन्द्रेषु निवेशविषये विस्तृतः विमर्शः भविष्यति। सम्मेलने देश-विदेशयोः प्रमुखाः प्रौद्योगिकीसंस्थाः, निवेशकाः तथा नीतिविशेषज्ञाः एकस्मिन् मञ्चे समागमिष्यन्ति।

जनसम्पर्काधिकारिणी जूहीश्रीवास्तवः अवदत् यत् एमपी टेक ग्रोथ कॉन्क्लेव ३.० कार्यक्रमस्य उद्घाटनं मुख्यमन्त्री डॉ. मोहनयादवः करिष्यति। सः राज्य-सर्वकारस्य प्रौद्योगिकीआधारित-औद्योगिक-विकासस्य दृष्टिकोणं प्रस्तोष्यति तथा उद्योगप्रतिनिधिभिः सह पृथक् पृथक् सभाः कृत्वा निवेशः, परियोजनानां क्रियान्वयनम् तथा भावीसहयोगस्य सम्भावनाः इत्यादिषु चर्चां करिष्यति। मुख्यमन्त्री सम्मेलनपरिसरे आयोजितां प्रदर्शनीमपि अवलोकयिष्यति।तया उक्तं यत् विज्ञान-प्रौद्योगिकीविभागेन आयोजितस्य अस्य सम्मेलनस्य उद्देश्यम् उच्चविकासयुक्तेषु प्रौद्योगिकीक्षेत्रेषु निवेशस्य संवर्धनं तथा वैश्विकक्षमता-केन्द्राणां, दत्तांशकेन्द्राणां, अर्धचालक-क्षेत्रस्य च विकासेन मध्यप्रदेशं भारतस्य प्रमुखनिवेशगन्तव्येषु प्रतिष्ठापयितुम् अस्ति। सम्मेलने प्रदेशस्य प्रौद्योगिकी-विकासयात्रायाः विशेषप्रस्तुतिः भविष्यति। अग्रणीसंस्थानां विशेषज्ञाः वैश्विकक्षमता-केन्द्रविस्तारः, दत्तांशकेन्द्र-विकासः तथा अर्धचालक-तन्त्रस्य अवसराणां विषये स्वविचारान् प्रस्तोष्यन्ति। कार्यक्रमे विविधाः रणनैतिक-सहभागितायाः तथा सन्धयः अपि विनिमीयन्ते, ये राज्यस्य प्रौद्योगिकी-परिस्थितितन्त्रं सुदृढं कर्तुं महत्त्वपूर्णां भूमिकां निर्वहिष्यन्ति।

जनसम्पर्काधिकारिण्याः अनुसारं सम्मेलने अर्धचालक-वैश्विकक्षमताकेन्द्र- दत्तांशकेन्द्रविषयकाः गोलमेजचर्चाः आयोजयिष्यन्ते। तासु वरिष्ठोद्योग-प्रतिनिधयः, नीतिनिर्मातारः, शिक्षाविदश्च राज्ये निवेशस्य सम्भावनाः, कुशलमानव-संसाधनम्, औद्योगिक-आधारसंरचना, नीतिगतसहयोगः तथा भाव्यावश्यकताः इत्यादिषु विचारविमर्शं करिष्यन्ति। चर्चायाः प्रमुखविषयेषु मध्यप्रदेशे समन्वितस्य इलेक्ट्रॉनिक्स-अर्धचालकतन्त्रस्य विकासः, राज्यस्य भारतस्य अग्रणीवैश्विक-क्षमताकेन्द्रगन्तव्यरूपेण प्रतिष्ठापनम् तथा डिजिटलाधारसंरचनायाः सुदृढीकरणं समाविष्टम् अस्ति।

तया अपि उक्तं यत् सम्मेलने देश-विदेशयोः अग्रणीप्रौद्योगिकीसंस्थानां, उद्योगसङ्घानां, निवेशकानां, नवोद्यमानां, नवोन्मेषपोषणकेन्द्राणाम्, अनुसन्धान-शैक्षणिकसंस्थानां तथा नीतिविशेषज्ञानां प्रतिनिधयः सहभागं करिष्यन्ति। सीटीआरएलएस डेटासेण्टर्स, केन्स टेक्नोलॉजीस्, फुजियामा पावर, न्योबोल्ट लिमिटेड् इत्यादीनां प्रतिष्ठितसंस्थानां प्रतिनिधयः विविधप्रौद्योगिकीक्षेत्रेषु निवेश-सहयोगयोः सम्भावनानां विषये स्वविचारान् प्रस्तोष्यन्ति। प्रमुखशैक्षणिक-संस्थानानि अपि नवोन्मेषः, अनुसन्धानम्, कौशलविकासः तथा उद्योग-शैक्षणिक-सहयोगः इत्यादिविषयेषु आयोजितेषु सत्रेषु सहभागं करिष्यन्ति।

तया सूचितं यत् एमपी टेक ग्रोथ कॉन्क्लेव इत्यस्य पूर्वद्वयं संस्करणं प्रदेशे प्रौद्योगिकीक्षेत्रे निवेशाय नूतनां गतिम् अददात्। प्रथमसंस्करणे विंशतिसहस्र-कोटिरूप्यकाधिकमूल्यानि निवेशप्रस्तावाः प्राप्ताः, येभ्यः प्रायः पञ्चसप्ततिसहस्राणि रोजगारावसराः सृजिताः। द्वितीयसंस्करणे द्वादशसहस्र-कोटिरूप्यकाधिकनिवेशः प्राप्तः, यस्मात् प्रायः अष्टचत्वारिंशत्सहस्रं रोजगारावसराः अभवन्। तृतीय-संस्करणस्य उद्देश्यम् एतां निवेशयात्रां नूतनशिखरं नेतुं तथा रणनीतिक-प्रौद्योगिकीक्षेत्रेषु उद्योगानां सहभागितां अधिकं सुदृढां कर्तुम् अस्ति।

Hindusthan Samachar / Dheeraj Maithani