मध्यप्रदेशे “दुग्धसमृद्धिसम्पर्काभियानस्य” तृतीयः चरणः अद्यारभ्यते
– अधिकारिणः कर्मचारीणश्च पशुपालकानां गृहाणि गत्वा जातिसुधारम्, पशुपोषणम्, टीकाकरणम् तथा लिङ्गवर्गीकृतवीर्यस्य उपयोगविषये सूचनां दास्यन्ति भोपालनगरम्, १३ जुलाईमासः (हि.स.)। मध्यप्रदेशे दुग्धोत्पादनस्य संवर्धनाय तथा पशुपालकानाम् आर्थिकसशक्तीकरणाय पश
दुग्ध समृद्धि संपर्क अभियान (पोस्टर)


– अधिकारिणः कर्मचारीणश्च पशुपालकानां गृहाणि गत्वा जातिसुधारम्, पशुपोषणम्, टीकाकरणम् तथा लिङ्गवर्गीकृतवीर्यस्य उपयोगविषये सूचनां दास्यन्ति

भोपालनगरम्, १३ जुलाईमासः (हि.स.)। मध्यप्रदेशे दुग्धोत्पादनस्य संवर्धनाय तथा पशुपालकानाम् आर्थिकसशक्तीकरणाय पशुपालन-डेयरीविभागेन सञ्चाल्यमानस्य “दुग्धसमृद्धि-सम्पर्काभियानस्य” तृतीयः चरणः अद्य सोमवासरात् प्रारभ्यते। अस्याः योजनायाः अन्तर्गतं पशुपालन-डेयरीविभागस्य अधिकारिणः कर्मचारीणश्च पशुपालकानां गृहाणि गत्वा जातिसुधारः, पशुपोषणम्, टीकाकरणम् तथा लिङ्गवर्गीकृतवीर्यस्य उपयोगविषये सूचनां प्रदास्यन्ति।

पशुपालन-डेयरीविभागस्य प्रमुखसचिवः उमाकान्त-उमरावः उक्तवान् यत् पशूनां जातिसुधाराय, समुचितपशुपोषणाय, टीकाकरणाय तथा लिङ्गवर्गीकृतवीर्यस्य उपयोगविषये जनजागरणार्थं प्रदेशे दुग्धसमृद्धिसम्पर्काभियानं सञ्चाल्यते। अभियानस्य तृतीयः चरणः अद्य प्रारभ्यते। अस्मिन् चरणे विभागस्य अधिकारिणः कर्मचारीणश्च पशुपालकानां गृहाणि गत्वा तेषां मार्गदर्शनं करिष्यन्ति। विशेषतः येषां पशुपालकानां समीपे त्रयः अथवा चत्वारः गौवंशीयाः महिषवंशीयाश्च पशवः सन्ति, तेषां गृहेषु प्रशिक्षितविभागीयकर्मचारिणः प्रत्यक्षं गत्वा मिलिष्यन्ति।

तेन उक्तं यत् दुग्धसमृद्धि-सम्पर्काभियानस्य तृतीय-चरणस्य कृते षड्दिनानि निर्धारितानि सन्ति। आवश्यकतायां सति सा अधिकतमं नवदिनपर्यन्तं वर्धयितुं शक्यते। अभियानस्य समये क्षेत्रीयकर्मचारिणां समस्यासु त्वरित-समाधानार्थम् एकः नियन्त्रणकक्षः स्थापयिष्यते। उपसञ्चालकः, कार्यालयस्थः तथा राज्यस्तरे प्रशिक्षितः कार्यक्रमस्य नोडलाधिकारी च तस्य प्रभारी भविष्यति।

जनप्रतिनिधीनामपि सहभागिता भविष्यति

अस्मिन् अभियाने मन्त्री, सांसदाः, विधायकाः तथा अन्ये जनप्रतिनिधयः सक्रियतया सहभागं करिष्यन्ति इति निर्देशाः अपि प्रदत्ताः। उपसञ्चालकः जनप्रतिनिधिभिः सह व्यक्तिगतसाक्षात्कारं कृत्वा तान् अभियाने संयोजयिष्यति। प्रत्येकं अधिकारिणः स्वकार्यप्रदेशस्य न्यूनातिन्यूनं पञ्चप्रतिशतं पशुपालकानां तथा दशग्रामाणां सत्यापनम् मूल्याङ्कनं च कर्तव्यम् अनिवार्यं भविष्यति। अभियानस्य निरीक्षणं मुख्यकार्य-पालनाधिकारी, उपसञ्चालकः, जनपद-पशुप्रजननकार्यक्रमाधिकारी, राज्य-स्तरीयनोडलाधिकारी तथा सर्वे पशुचिकित्सकाः करिष्यन्ति। जनपद-प्रशासनस्य वरिष्ठाधिकारिणः अपि न्यूनातिन्यूनं द्वयोः ग्रामयोः भ्रमणं कृत्वा अभियानस्य निरीक्षणं कुर्वन्तु इति अनुरोधः कृतः। प्रभावीक्रियान्वयनार्थं राज्यस्तरे अपि एकः नियन्त्रणकक्षः स्थापयिष्यते।

Hindusthan Samachar / Dheeraj Maithani