Enter your Email Address to subscribe to our newsletters



– टेक-ग्रोथ-कॉन्क्लेव निवेशोन्मुख-नीतेः महत्त्वपूर्णं अङ्गम् : मुख्यसचिवः जैनः
भोपालनगरम्, १३ जुलाईमासः (हि.स.)। मध्यप्रदेशस्य राजधान्यां भोपालनगरे सोमवासरे आयोजिते एमपी-टेक-ग्रोथ-कॉन्क्लेव ३.० मध्ये गूगल-प्ले तथा एमपीएसईडीसी इत्येतयोः मध्ये कृत्रिम-बुद्धिमत्ता तथा डिजिटल-क्षमता-विकास-क्षेत्रयोः सहकार्यसम्बद्धः महत्त्वपूर्णः एमओयू-सन्धि: सम्पन्नः। अनेन सहभागित्वेन प्रदेशे उद्भवमान-प्रौद्योगिकीनां प्रोत्साहनं भविष्यति तथा डिजिटल-नवाचारः कौशल-विकासश्च अधिकं प्रोत्साहनं प्राप्स्यतः।
मुख्यसचिवः अनुराग-जैनः कार्यक्रमम् सम्बोधयन् अवदत् यत् एमपी-टेक-ग्रोथ-कॉन्क्लेव ३.० राज्यसर्वकारस्य निवेशोन्मुख-नीतेः अन्तर्गतं आयोजितायाः कॉन्क्लेव-श्रृङ्खलायाः महत्त्वपूर्णोऽङ्गम् अस्ति। अस्याः आरम्भः प्रदेशस्य विभिन्न-क्षेत्रेषु आयोजितैः क्षेत्रीय-औद्योगिक-कॉन्क्लव-इत्येतै: अभवत्। तदनन्तरं मुख्यमन्त्री डॉ.मोहन-यादवः देशे विदेशे च आयोजितेषु विविधेषु औद्योगिक-कॉन्क्लव-इत्येतेषु सहभागित्वं कृत्वा मध्यप्रदेशं निवेशस्य आकर्षक-गन्तव्यरूपेण प्रतिष्ठापितवान्। वर्षे २०२५ आयोजितायाः ग्लोबल-इन्वेस्टर्स-समिट-अनन्तरं प्रदेशे दश-लक्ष-कोटि-रूप्यकाधिकः निवेशः धरातले अवतरितः अस्ति।
सः अवदत् यत् भविष्यत्कालः सूचना-प्रौद्योगिक्याः तथा डाटा-केन्द्राणां भविष्यति। एतस्मात् कारणात् मध्यप्रदेशः टेक्नोलॉजी-क्षेत्रे विशेषं ध्यानं ददाति। एमपी-टेक-ग्रोथ-कॉन्क्लेव ३.० प्रदेशस्य औद्योगिक-निवेश-यात्रायाः महत्त्वपूर्णं सोपानम् अस्ति। प्रदेशे जीसीसी, डाटा-केन्द्रेषु तथा सेमीकण्डक्टर-क्षेत्रे निवेशस्य सम्भावनानां विषये गम्भीरतया कार्यं क्रियते। डिजिटल-प्रौद्योगिकी-क्षेत्रे अद्यावधि द्वादश-सहस्र-कोटि-रूप्यकाधिकः निवेशः धरातले अवतरितः अस्ति।
मुख्यसचिवः जैनः अवदत् यत् मुख्यमन्त्रिणः डॉ. मोहन-यादवस्य मार्गदर्शने राज्यसर्वकारेण उद्योग-मित्र-नीतयः प्रवर्तिताः, येषां सकारात्मक-परिणामाः अधुना दृश्यन्ते। निवेशकाः प्रदेशस्य नीतिषु कार्यपद्धत्यां च विश्वासं प्रदर्शयन्ति। अनेकैः उद्योग-समूहैः पुनः पुनः निवेशः कृत्वा अस्य विश्वासस्य दृढता वर्धिता। सः अवदत् यत् मध्यप्रदेशस्य भौगोलिक-स्थितिः, उपलब्धाः मानव-संसाधनाः, उच्च-शैक्षणिक-संस्थानानि, पर्याप्तः भूमिभण्डारः, प्लग एण्ड प्ले सुविधाः तथा निर्बाध-विद्युत्-उपलब्धता निवेशकानां कृते अनुकूलं वातावरणं निर्माति। भोपालस्य इलेक्ट्रॉनिक्स-निर्माण-उद्याने निवेशः निरन्तरं वर्धते तथा ग्वालियरनगरे दूरसञ्चार-निर्माण-क्षेत्रस्य स्थापनार्थं भारत-सर्वकारात् अनुमतिः प्राप्ता अस्ति। सः अपि अवदत् यत् सौर-ऊर्जा-क्षेत्रे मध्यप्रदेशः उल्लेखनीयाः उपलब्धयः प्राप्तवान् तथा राज्यसर्वकारः देशे न्यूनतम-मूल्येन हरित-ऊर्जां प्रददाति। प्रदेशस्य आत्मीयं निवेशक-अनुकूलं च वातावरणम् अपि उद्योगान् निवेशं च आकर्षयितुं महत्त्वपूर्णां भूमिकां निर्वहति।
विंशतिः नूतनाः औद्योगिक-प्रौद्योगिकी-आधारित-विभागा: लोकार्पिताः
कॉन्क्लव-मध्ये मुख्यमन्त्री डॉ. मोहन-यादवः राज्यस्य औद्योगिक-प्रौद्योगिकी-विकासाय नूतनां गतिं प्रदाय विंशतिः नूतनाः औद्योगिक-प्रौद्योगिकी-आधारित-विभागा: लोकार्पितवान्। एतेषु विभागेषु १७८.७० कोटि-रूप्यकाणां निवेशः भविष्यति तथा १२२९ नूतन-रोजगार-अवसराः सृज्यन्ते। एते विभागा: मुख्यतया इन्दौर-भोपाल-जबलपुरस्य सूचना-प्रौद्योगिकी-उद्यानेषु स्थापिताः सन्ति। तासु आईटी/आईटीईएस, ईएसडीएम तथा नवाचार-आधारित-उद्योगाः समाविष्टाः सन्ति। एतासां सञ्चालनेन प्रदेशस्य सूचना-प्रौद्योगिकी-इलेक्ट्रॉनिक्स-परितन्त्रं सुदृढं भविष्यति तथा निवेशः, नवाचारः, रोजगार-सृजनं च नूतनं प्रोत्साहनं प्राप्स्यति।
अष्ट-निर्माणीभ्यः भूम्या: आवण्टनस्य आशयपत्राणि प्रदत्तानि
मुख्यमन्त्री निवेशस्य औद्योगिक-विकासस्य च प्रोत्साहनार्थं कॉन्क्लव-इत्यत्र अष्ट-निर्माणीभ्यः भूम्यावण्टनस्य आशयपत्राणि प्रदत्तवान्। एतासु परियोजनासु २०३.५८ कोटि-रूप्यकाणां निवेशः भविष्यति तथा १२४२ प्रत्यक्ष-रोजगार-अवसराः सृज्यन्ते। एतेषाम् आवण्टनानां माध्यमेन इन्दौरस्य सिंहासा-आईटी-उद्याने तथा भोपालस्य बड़वई-आईटी-उद्याने सूचना-प्रौद्योगिकी, आईटीईएस, ईएसडीएम, इलेक्ट्रॉनिक्स-विनिर्माणम्, सूचना-प्रौद्योगिकी-अवसंरचना तथा स्टार्ट्-अप्-परितन्त्रं सुदृढाधारं प्राप्स्यति। अनेन प्रदेशे तकनीकी-निवेशस्य औद्योगिक-विकासस्य च नूतना गतिः भविष्यति।
Hindusthan Samachar / Divya Ranjan