जोराबाटे कृत्रिमजलप्रलयाय मेघालय सर्वकारो उत्तरदायी - मंत्री बिश्वजीत दैमारी
गुवाहाटी, 13 जुलाईमासः (हि.स.)। असमसर्वकारस्य मन्त्री बिश्वजीतदैमारी आरोपम् अकरोत् यत् मेघालयसर्वकारेण यूएसटीएम संस्थायै अवैधनिर्माणस्य अनुमतिः प्रदत्ता, यस्य कारणात् जोराबाट तथा गुवाहाटीनगरस्य अनेकेषु क्षेत्रेषु कृत्रिमजलप्लावनस्य भीषणावस्था उत्
Assam Assembly असम विधानसभा


गुवाहाटी, 13 जुलाईमासः (हि.स.)।

असमसर्वकारस्य मन्त्री बिश्वजीतदैमारी आरोपम् अकरोत् यत् मेघालयसर्वकारेण यूएसटीएम संस्थायै अवैधनिर्माणस्य अनुमतिः प्रदत्ता, यस्य कारणात् जोराबाट तथा गुवाहाटीनगरस्य अनेकेषु क्षेत्रेषु कृत्रिमजलप्लावनस्य भीषणावस्था उत्पन्ना अभवत्। दैमारी अद्य असमविधानसभायाः प्रवर्तमाने बजटसत्रे भागं ग्रहीतुं गच्छन् पत्रकारैः सह वार्तालापम् अकरोत्।

दैमारी अवदत् यत् अवैधनिर्माणस्य विरुद्धं सर्वकारेण कठोरकार्यवाही अवश्यमेव कर्तव्या। सः अवदत् यत् पर्यावरणसम्बद्धानां निर्माणसम्बद्धानां च नियमाणां उल्लङ्घनम् कस्मिन्नपि परिस्थितौ स्वीकर्तुं न शक्यते।

काङ्ग्रेसदलम् आलोचयन् मन्त्री अवदत् यत् यत्र काङ्ग्रेसदलम् अस्मिन् विषये अशोभनां राजनीतिं करोति, तत्र सर्वकारः अवैधनिर्माणस्य विरुद्धं कठोरकार्यवाहीं कर्तुं दृढसङ्कल्पः अस्ति।

----------

Hindusthan Samachar / Dheeraj Maithani