ऊर्जासहयोगविषये वार्तायै भारतीयविदेशमन्त्रालयस्य अतिरिक्तसचिवः अद्य नेपालम् आगमिष्यति
काठमाण्डुनगरम्, १३ जुलाईमासः (हि.स.)। नेपाल-भारतयोः ऊर्जाक्षेत्रसम्बद्धानां महत्त्वपूर्णविषयाणां चर्चायै भारतस्य विदेशमन्त्रालयस्य अतिरिक्तसचिवः मनुः महावरः अद्य काठमाण्डुम् आगमिष्यति। नेपालस्य ऊर्जा-जलस्रोत-सिञ्चनमन्त्री विराजभक्तश्रेष्ठस्य सचिवाल
भारतीय विदेश मंत्रालय के नेपाल डेस्क प्रभारी मनु महावार


काठमाण्डुनगरम्, १३ जुलाईमासः (हि.स.)। नेपाल-भारतयोः ऊर्जाक्षेत्रसम्बद्धानां महत्त्वपूर्णविषयाणां चर्चायै भारतस्य विदेशमन्त्रालयस्य अतिरिक्तसचिवः मनुः महावरः अद्य काठमाण्डुम् आगमिष्यति। नेपालस्य ऊर्जा-जलस्रोत-सिञ्चनमन्त्री विराजभक्तश्रेष्ठस्य सचिवालयस्य अनुसारं पोखरानगरे एषा सभा अद्य सायंकाले प्रारभ्यते। अस्याः समाप्तिः १४ जुलाईमासे भविष्यति। महावरः भारतीयविदेश-मन्त्रालयस्य उत्तरविभागस्य प्रमुखः अस्ति। सः नेपाल-भूटानसम्बद्ध-विषयाणां दायित्वं वहति।

यद्यपि एषा द्विपक्षीया व्यवस्था प्रति षण्मासे आयोजनीया, तथापि २०२५ तमे वर्षे फरवरीमासे नवदिल्लीनगरे सम्पन्नायाः सभायाः अनन्तरं पुनः सभा नाभवत्। सम्प्रति नेपालदेशात् उत्पादिता ४० मेगावाट् विद्युत्शक्तिः भारतस्य माध्यमेन बाङ्ग्लादेशदेशं प्रति निर्यात्यते। नेपालदेशः भविष्ये विद्युन्निर्यातं वर्धयितुम् इच्छति, यस्य कृते भारतस्य अनुमतिः अनिवार्या भविष्यति।

अतिरिक्ततया २२० केवी-क्षमतायुक्तायाः चमेलिया–जौलजीबी द्विचक्रिकायाः अन्तर्देशीयविद्युत्- प्रसारणरेखायाः निर्माणेऽपि निरन्तरं विलम्बः भवति। उभाभ्यां देशाभ्यां स्व-स्वक्षेत्रे विद्युत्प्रसारणरेखायाः निर्माणं करणीयम्, किन्तु एषा परियोजना अपेक्षितगत्या अग्रे न प्रवर्तते। ऊर्जाक्षेत्रे उभयदेशयोः मध्ये विद्यमानानां अन्येषामपि लम्बितविषयाणां विषये अस्यां सभायां चर्चायाः सम्भावना वर्तते।

नेपालस्य प्रधानमन्त्रीणः बालेन्द्रशाहस्य सम्भावितायाः भारतयात्रायाः चर्चायाः मध्ये मनु-महावरस्य अयं नेपालप्रवासः महत्त्वपूर्णः मन्यते। स्वस्य प्रवासकाले सः नेपालस्य विदेशमन्त्रिणा शिशिरखनालेन सहापि मिलिष्यति। उल्लेखनीयम् यत् जूनमासे विदेशमन्त्रिणः शिशिरखनालस्य भारतयात्रायाः समये अपि उभयोः देशयोः मध्ये ऊर्जाव्यापारस्य विषये विस्तृता चर्चा अभवत्।

Hindusthan Samachar / Divya Ranjan