समावेशीविकासाय राष्ट्रनिर्माणाय च प्रधानमन्त्री मोदी महोदयः सुभाषितम् अलिखत्
नवदिल्ली, १३ जुलाईमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदीमहोदयः अद्य नीतिशास्त्रस्य प्रसिद्धं सुभाषितम् उद्धृत्य देशस्य समावेशीविकासे राष्ट्रनिर्माणे च प्रत्येकं नागरिकस्य सहभागस्य महत्त्वम् अवदत्। प्रधानमन्त्री महोदयः एक्स-माध्यमे एतत् सुभाषितम्
प्रधानमंत्री नरेन्द्र मोदी (फाइल फोटो)


नवदिल्ली, १३ जुलाईमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदीमहोदयः अद्य नीतिशास्त्रस्य प्रसिद्धं सुभाषितम् उद्धृत्य देशस्य समावेशीविकासे राष्ट्रनिर्माणे च प्रत्येकं नागरिकस्य सहभागस्य महत्त्वम् अवदत्।

प्रधानमन्त्री महोदयः एक्स-माध्यमे एतत् सुभाषितम् उद्धृतवान्—

“कन्यानां सम्प्रदानञ्च कुमाराणाञ्च रक्षणम्।राष्ट्रस्य सङ्ग्रहे नित्यं विधानमिदमाचरेत्॥”

तस्य व्याख्यायां सः उक्तवान् यत् महिलानां कल्याणस्य सुनिश्चितीकरणम्, युवावंशस्य संरक्षणं पोषणं, राष्ट्रस्य एकता, सुरक्षा, समृद्धिः, सुशासनं च निरन्तरं सुनिश्चितं कर्तुं जनप्रतिनिधेः सततं कर्तव्यम् अस्ति।

ततः परं प्रधानमन्त्री पुनरपि एतत् सुभाषितम् उद्धृत्य उक्तवान् यत् अस्य भावार्थः अस्ति— यदा सर्वतोमुखविकासेन सह प्रत्येकं देशवासिनः जीवने सकारात्मकं परिवर्तनं सुनिश्चितं भवति, तदा राष्ट्रस्य प्रगतिरपि नूतनां गतिं प्राप्नोति। एतयैव प्रेरणया वयं भारतस्य दृढतां निरन्तरं सुदृढां कुर्मः तथा तस्याः महत्त्वं वर्धयामः।

Hindusthan Samachar / Dheeraj Maithani