Enter your Email Address to subscribe to our newsletters

प्रयागराजः, १३ जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य पशुपालकानां कृते हर्षजनका वार्ता अस्ति। उत्तरप्रदेशस्य पशुपालनविभागः २२ जुलाईमासतः ८ सेप्टेम्बरमासपर्यन्तं जनपदे खुरपका-मुखपका-रोगस्य निवारणार्थं विशेषं निःशुल्कटीकाकरणाभियानम् आयोजयिष्यते। अभियानस्य अन्तर्गतं विभागस्य दलानि ग्रामं ग्रामं गृहं गृहं च गत्वा गोवंशीयानां महिषवंशीयानां च पशूनां टीकाकरणं करिष्यन्ति। एषा सूचना सोमवासरे मुख्यपशुचिकित्साधिकारीणा डॉ. शिवनाथयादवेन प्रदत्ता।
सः अवदत् यत् एफएमडी-रोगः अत्यन्तं संक्रामकः अस्ति, येन पशूनां स्वास्थ्यं तथा दुग्धोत्पादनमपि प्रभावितं भवति। समये टीकाकरणं कारयित्वा अस्य रोगस्य प्रभावात्मकं निवारणं शक्यते तथा पशुपालकाः आर्थिकहानेः अपि रक्षणं प्राप्नुवन्ति।
तेन उक्तं यत् अभियानस्य समये प्रत्येकं पशोः कर्णे कर्णचिह्नपट्टिका स्थापयिष्यते तथा तस्य पञ्जीकरणं भारत-पशुधन-अनुप्रयोगे करिष्यते। अनेन पशूनां डिजिटल-अभिलेखः सिद्धः भविष्यति, येन भविष्ये विविधसर्वकारीययोजनानां पशु-पालनसेवानां च लाभः सुलभतया प्राप्स्यते।
मुख्यपशुचिकित्साधिकारी जनपदस्य सर्वेभ्यः पशुपालकेभ्यः आह्वानम् अकरोत् यत् ते २२ जुलाईमासतः प्रारभ्यमाणस्य अस्य विशेषाभियानस्य पूर्णं लाभं गृह्णन्तु तथा स्वेषां सर्वेषां गवां, वृषभानां तथा महिषीणां च निःशुल्कटीकाकरणम् अवश्यं कारयन्तु। येषां पशूनां कर्णचिह्नपट्टिका अद्यापि न स्थापितास्ति, तेषां कर्णपट्टिकाः स्थापनाय पञ्जीकरणं च अपि कारयन्तु, येन ते विभागस्य डिजिटलसेवाभिः योजनाभिश्च सम्बद्धाः भवितुं शक्नुयुः।
सः विश्वासं व्यक्तवान् यत् पशुपालकानां सहयोगेन एतत् अभियानं सफलं भविष्यति तथा जनपदस्य पशुधनं खुरपका-मुखपकाम् इव गम्भीररोगात् सुरक्षितं कर्तुं महत्त्वपूर्णा सफलता प्राप्स्यते।
Hindusthan Samachar / Dheeraj Maithani