Enter your Email Address to subscribe to our newsletters

प्रयागराजनगरम्, १३ जुलाईमासः (हि.स.)। उत्तरप्रदेश-सर्वकारस्य महिला-कल्याण-बाल-विकास-पुष्टाहार-मन्त्री बेबी-रानी-मौर्या सोमवासरे प्रयागराजे आयोजितायां समीक्षा-सभायाम् अवदत् यत् महिला-कल्याण-बाल-विकास-पुष्टाहार-विभागस्य सर्वासां योजनानां लाभः प्रत्येकं पात्र-लाभार्थिनं प्रति समयबद्ध-रीत्या, पारदर्शीतया तथा गुणवत्तापूर्ण-रीत्या प्रापणीय:।
सा अवदत् यत् योजनानां प्रभावी-क्रियान्वयनार्थं नियमित-निरीक्षणं, उत्तरदायित्वं तथा जनहितं सर्वोच्च-प्राथमिकतया स्वीकरणीयम्। प्रयागराजस्य सर्किट-हाउस-प्राङ्गणे आयोजितायां प्रयागराज-मण्डलस्य जनपद-कार्यक्रम-अधिकारिणां तथा जनपद-प्रोबेशन-अधिकारिणां विभागीय-समीक्षा-सभायां मन्त्रिणी बेबी-रानी-मौर्या विभागीय-योजनानां गहन-समीक्षाम् अकरोत्। तया अधिकारिणः निर्देशिताः यत् सर्वासां योजनानां शत-प्रतिशत-क्रियान्वयनं पूर्ण-निष्ठया प्रामाणिकतया च सुनिश्चितं क्रियताम्। समीक्षा-सभायां मन्त्रिणी महिला-कल्याण-बाल-विकास-विभागयोः अद्यावधि-प्रगतेः विषये सन्तोषं प्रकटितवती। तया विशेषतया आङ्गनवाडी-कार्यकर्त्रीणां नियमित-प्रशिक्षणस्य महत्त्वम् प्रतिपाद्य उक्तं यत् आङ्गनवाडी-केन्द्रेषु पञ्जीकृत-शिशुभ्यः अनौपचारिक-शिक्षया सह उत्तम-संस्काराः श्रेष्ठम् आचरणं च प्रदेयम्।
सभा-पूर्वं सम्भव-अभियानस्य अन्तर्गतं जन-जागरूकतार्थम् आयोजितां पोषण-शोभायात्राम् मन्त्रिणी हरित-ध्वजं प्रदर्श्य प्रेषितवती। अस्यां शोभायात्रायां प्रायः त्रिशतं आङ्गनवाडी-कार्यकर्त्र्यः सहायिकाश्च सहभागिन्यः अभवन्। अस्मिन् अवसरे प्रदेशे प्रवर्तितायाः नूतन-पुष्टाहार-पाक-विधेः अन्तर्गतं द्वाभ्यां गर्भवतीभ्यां, द्वाभ्यां धात्रीभ्यां तथा षण्मासात् षड्वर्ष-पर्यन्तं वयसां चतुर्भ्यः बालकेभ्यः मन्त्रिणी स्वहस्तैः नूतन-पुष्टाहार-पुटकानि वितरितवती। मन्त्रिण्याः हस्तेभ्यः पुष्टाहारं प्राप्य लाभार्थिनः प्रसन्नतां सन्तोषं च प्रकटितवन्तः।
मन्त्रिणी आङ्गनवाडी-सेवानां सुदृढी-करणं, बाल-संरक्षणं तथा महिला-कल्याण-योजनानां प्रभावी-क्रियान्वयनं प्रति विशेषं बलं दत्त्वा अधिकारिभ्यः उक्तवती यत् योजनानां सञ्चालने गुणवत्ता, पारदर्शीता तथा समयबद्धता अवश्यं सुनिश्चितीकरणीया। सभायां महिला-कल्याण-विभागस्य उपनिदेशकः, प्रयागराज-मण्डलस्य सर्वे जनपद-कार्यक्रम-अधिकारिणः, जनपद-प्रोबेशन-अधिकारिणः तथा प्रयागराज-जनपदस्य सर्वे बाल-विकास-परियोजना-अधिकारिणः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan