कतर के पूर्व अमीर शेख के निधन पर भारत में राष्ट्रीय शोक, सरकारी भवनों पर आधा झुकाया गया तिरंगा
नव दिल्ली,13 जुलाईमासः (हि. स.) । कतारदेशस्य पूर्वामीरः शेख हमद बिन खलीफा अल थानी इत्यस्य निधनानन्तरं देशे घोषितस्य एकदिवसीयराष्ट्रियशोकस्य कारणात् सोमवासरे दिल्लीनगरस्य समस्तासु सर्वकारीयभवनेषु राष्ट्रध्वजः अर्धनमितः स्थापितः। राष्ट्रपतिभवनम्, स
कतर के पूर्व अमीर शेख हमद बिन खलीफा के निधन पर भारत में एक दिवसीय राष्ट्रीय शोक, राष्ट्रपति भवन और संसद भवन सहित सरकारी इमारतों पर झुका तिरंगा।


नव दिल्ली,13 जुलाईमासः (हि. स.) ।

कतारदेशस्य पूर्वामीरः शेख हमद बिन खलीफा अल थानी इत्यस्य निधनानन्तरं देशे घोषितस्य एकदिवसीयराष्ट्रियशोकस्य कारणात् सोमवासरे दिल्लीनगरस्य समस्तासु सर्वकारीयभवनेषु राष्ट्रध्वजः अर्धनमितः स्थापितः। राष्ट्रपतिभवनम्, संसद्भवनम्, संविधानसदनम्, नार्थब्लाक्, साउथब्लाक् इत्यादिषु प्रमुखप्रशासनिकभवनेषु राष्ट्रध्वजम् अर्धनमितं स्थापयित्वा श्रद्धाञ्जलिः अर्पिता।

विदेशमन्त्रालयस्य प्रवक्ता रणधीरजायसवालः सामाजिकमाध्यममञ्चे एक्स इत्यत्र अलिखत् यत् भारतं कतारदेशस्य पूर्वामीरस्य सम्मानार्थम् एकदिवसीयं राष्ट्रियशोकम् आचरति तथा राष्ट्रध्वजः अर्धनमितः अस्ति। कृषिभवनम्, रेलभवनम्, एयरफोर्सभवनम्, सेवातीर्थसमुच्चयः इत्यादिषु अन्येषु सर्वकारीयभवनेषु अपि ध्वजम् अर्धनमितं स्थापयित्वा शोकः व्यक्तीकृतः।

उल्लेखनीयम् अस्ति यत् शेख हमद बिन खलीफा अल थानी इत्यस्य जुलैमासस्य द्वादशे दिने चतुःसप्ततिवर्षीयवयसि निधनम् अभवत्। सः कतारदेशे फादर अमीर इति नाम्ना प्रसिद्धः आसीत्। तेन १९९५ तमे वर्षे शासनभारः स्वीकृतः तथा अष्टादशवर्षपर्यन्तं देशस्य नेतृत्वं कृतम्। तस्य शासनकाले कतारदेशेन व्यापकाः आर्थिकसुधाराः कृताः, एलएनजी क्षेत्रे महत्त्वपूर्णं निवेशं कृतम् तथा देशः विश्वस्य प्रमुखः एलएनजी निर्यातकः अभवत्। तेन दोहानगरस्य वास्तुशिल्पपरिदृश्यं आधुनिकरूपेण विकसितम् तथा देशस्य अन्ताराष्ट्रियप्रतिष्ठा नूतनशिखरम् आरोपिता। २०१३ तमे वर्षे तेन स्वेच्छया पदं त्यक्त्वा स्वपुत्राय शेख तमीम बिन हमद अल थानिने शासनभारः समर्पितः।

--------

Hindusthan Samachar / Dheeraj Maithani