‘नमस्ते’-योजनायाः त्रिवर्षपूर्त्यवसरे देशव्यापी-कार्यक्रमाः भविष्यन्ति
नवदेहली, १३ जुलाईमासः (हि.स.)। केन्द्रीय-सामाजिक-न्याय-अधिकारिता-मन्त्रालयेन मङ्गलवासरे (१४ जुलाईमासे) तृतीयः ‘नमस्ते-दिवसः’ आयोजयिष्यते। एषः दिवसः २०२३ तमे वर्षे प्रारब्धायाः राष्ट्रीय-यन्त्रीकृत-स्वच्छता-पारिस्थितिकी-तन्त्र -योजनायाः त्रिवर्षपूर्
‘नमस्ते’-योजनायाः त्रिवर्षपूर्त्यवसरे देशव्यापी-कार्यक्रमाः भविष्यन्ति


नवदेहली, १३ जुलाईमासः (हि.स.)। केन्द्रीय-सामाजिक-न्याय-अधिकारिता-मन्त्रालयेन मङ्गलवासरे (१४ जुलाईमासे) तृतीयः ‘नमस्ते-दिवसः’ आयोजयिष्यते। एषः दिवसः २०२३ तमे वर्षे प्रारब्धायाः राष्ट्रीय-यन्त्रीकृत-स्वच्छता-पारिस्थितिकी-तन्त्र -योजनायाः त्रिवर्षपूर्तेः प्रतीकः अस्ति।

मुख्यकार्यक्रमः दिव्य-कला-मेलापकेन सह पश्चिमबङ्गराज्यस्य कोलकाता-नगरे स्थिते रवीन्द्र-सदने आयोजयिष्यते। तस्मिन्नेव काले देशस्य विभिन्नेषु नगरीय-स्थानीय-निकायेषु समानान्तर-कार्यक्रमाः अपि आयोजयिष्यन्ते।

केन्द्रीय-सामाजिक-न्याय-अधिकारिता-मन्त्री डाॅ. वीरेन्द्रकुमारः तथा राज्यमन्त्री रामदास-आठवले कोलकातायां आयोजिते कार्यक्रमे सहभागी भविष्यतः इति अपेक्षा अस्ति। पश्चिमबङ्गस्य मुख्यमन्त्री सुवेन्दु-अधिकारी, मन्त्रिगणः, सांसदगणः, विधायकाः, केन्द्र-राज्ययोः वरिष्ठ-अधिकारिणः, जनपदप्रशासनस्य प्रति-निधयः, राष्ट्रीय-स्वच्छता-कर्मचारी-वित्त-विकास-निगमस्य प्रतिनिधयः तथा अन्ये गणमान्यजनाः अपि अस्मिन् कार्यक्रमे सहभागिनः भविष्यन्ति।

Hindusthan Samachar / Divya Ranjan