Enter your Email Address to subscribe to our newsletters

चेन्नई, 13 जुलाईमासः (हि.स.)। तमिलनाडुराज्यस्य राजधानी चेन्नईनगरे स्थिते राज्यसचिवालये मुख्यमन्त्रिणः विशेषप्रकोष्ठे (सीएम स्पेशल सेल) स्वकीयाभ्यः मागधाभ्यः परिवादेभ्यश्च सम्बद्धानि आवेदनपत्राणि समर्पयितुं सोमवासरे प्रातःकालादेव बहुसंख्यकाः जनाः समुपस्थिताः। जनसमागमः एतावान् आसीत् यत् सचिवालयपरिसरात् आरभ्य कामराजरसलैपर्यन्तं जनानां दीर्घाः पङ्क्तयः दृष्टाः।
अधिकारिणां कथनानुसारं सप्ताहस्य प्रथमकार्यदिवसत्वात् सामान्यदिवसेभ्यः अधिकसंख्यया जनाः सचिवालयम् आगतवन्तः। प्रातःकालादेव चेन्नईनगरात् सहितं राज्यस्य विविधजिलेभ्यः ७०० अधिकाः जनाः स्वकीयान् परिवादान् मागधाश्च गृहीत्वा मुख्यमन्त्रिणः विशेषप्रकोष्ठम् आगतवन्तः। जनसमागमस्य वृद्धेः कारणात् अनेकेभ्यः जनभ्यः सचिवालयपरिसरस्य बहिः पङ्क्तौ स्थित्वा प्रतीक्षा कर्तव्या अभवत्।
अधिकारिणः वदन्ति यत् बहुसंख्यकानां जनानां प्रत्यक्षतया सचिवालयम् आगमनस्य प्रमुखं कारणं मुख्यमन्त्रिणः विशेषप्रकोष्ठे तेषां विश्वासः अस्ति। जनानां विश्वासः अस्ति यत् तेषां आजीविकासम्बद्धेषु, कल्याणकारीयोजनासम्बद्धेषु, अन्येषु जनसमस्यासम्बद्धेषु च परिवादेषु शीघ्रमेव कार्यवाही भविष्यति।
मुख्यमन्त्रिणः विशेषप्रकोष्ठे अन्तर्जालमाध्यमेन अपि परिवादानाम् आवेदनपत्राणां च पञ्जीकरणस्य सुविधा उपलब्धा अस्ति। अन्तर्जालमाध्यमेन आवेदनं कृत्वा आवेदकेभ्यः अङ्कीयरसीदापि प्रदीयते। तथापि अधिकांशजनाः स्वयमेव सचिवालयम् आगत्य अधिकारिभ्यः प्रत्यक्षतया आवेदनपत्रं समर्पयितुं अधिकप्रभावकारि मन्यन्ते। तेषां मतम् अस्ति यत् व्यक्तिगतरीत्या आवेदनपत्रस्य समर्पणेन एषः विश्वासः भवति यत् परिवादः सम्बन्धितकार्यालयं प्राप्तः। तेन सह तेषां क्रमाङ्कसहितरसीदापि तत्क्षणमेव लभ्यते, येन कार्यवाहीविषये आशा अधिका दृढा भवति।
सचिवालयम् आगच्छतां जनानां सुरक्षा व्यवस्थापनं च सुनिश्चितीकर्तुं विशेषव्यवस्थाः कृताः सन्ति। प्रवेशद्वारे सर्वेषाम् आवेदकानां सूक्ष्मपरीक्षणं क्रियते। ततः आधारपत्रस्य अथवा मतदातृपरिचयपत्रस्य प्रतिलिपेः सत्यापनं कृत्वा सा संगृह्यते। सुरक्षाप्रक्रियायाः समापनानन्तरम् आवेदकाः मुख्यमन्त्रिणः विशेषप्रकोष्ठं प्रेष्यन्ते, यत्र ते अधिकारिभ्यः स्वीयम् आवेदनपत्रं समर्पयन्ति। आवेदनपत्रसमर्पणानन्तरं जनसमागमस्य दबावं नियन्त्रयितुं तान् वैकल्पिकमार्गेण बहिः निर्गन्तुं व्यवस्था कृता अस्ति।
उल्लेखनीयं यत् नूतनसर्वकारस्य कार्यभारग्रहणस्य प्रारम्भिकसप्ताहे सचिवालये समुपस्थितस्य विशालजनसमागमस्य दृष्ट्या जनानां विशेषप्रकोष्ठे प्रवेशस्य अनुमतिः न दत्ता आसीत्। तस्मिन् समये आवेदनपत्रसमर्पणार्थं सचिवालयस्य बहिः परिवादपेटिकाः स्थापिताः आसन्। अस्याः व्यवस्थायाः सामान्यजनैः राजनीतिदलैश्च आलोचना कृता आसीत्।
अनन्तरं सर्वकारेण अस्यां व्यवस्थायां परिवर्तनं कृत्वा पूर्वप्रणाली पुनः प्रवर्तिता। अधुना जनाः प्रत्यक्षतया मुख्यमन्त्रिणः विशेषप्रकोष्ठम् आगत्य अधिकारिभ्यः स्वीयम् आवेदनपत्रं समर्पयितुं शक्नुवन्ति। ततः प्रभृति प्रतिदिनं बहुसंख्यकाः जनाः स्वीयानां समस्याः मागधाश्च समाधानस्य आशां वहन्तः राज्यसचिवालयम् आगच्छन्ति।------------
Hindusthan Samachar / Dheeraj Maithani