नैनीतालजिल्लायाः 37 श्रद्धालवः सोमनाथ स्वाभिमान पर्व यात्रायै प्रातिष्ठन्त
हल्द्वानी, 13 जुलाईमासः (हि. स.)। ''‘सोमनाथस्वाभिमानपर्व-विशेष-निःशुल्क-रेलयात्रा २०२६’ इत्यस्य अन्तर्गतं नैनीतालजिलायाः चयनितानां ३७ श्रद्धालूनां दलं सोमवासरे हल्द्वानीतः देहरादूननगरं प्रति प्रस्थितम्। हल्द्वानी-रोडवेज-बसस्थानकात् प्रस्थितान् श्
Haldwani to somnath


हल्द्वानी, 13 जुलाईमासः (हि. स.)। '‘सोमनाथस्वाभिमानपर्व-विशेष-निःशुल्क-रेलयात्रा २०२६’ इत्यस्य अन्तर्गतं नैनीतालजिलायाः चयनितानां ३७ श्रद्धालूनां दलं सोमवासरे हल्द्वानीतः देहरादूननगरं प्रति प्रस्थितम्।

हल्द्वानी-रोडवेज-बसस्थानकात् प्रस्थितान् श्रद्धालून् सांसदः अजयभट्टः शुभकामनाः प्रदाय अवदत् यत् एषा योजना आर्थिककारणैः अन्यैः कारणैर्वा तीर्थयात्रां कर्तुम् अशक्तानां जनानां कृते महती राहतिः अस्ति। सः अवदत् यत् यात्राकाले परिवहनं, भोजनम्, आवासः, चिकित्सासुविधा च इत्यादयः सर्वे व्यवस्थाविशेषाः सर्वकारस्य पक्षतः निःशुल्कतया उपलब्धाः कृताः सन्ति।

जिलापर्यटनविकासाधिकारी कीर्तिआर्या अवदत् यत् नैनीतालजिलायाः दलं प्रथमं देहरादूननगरं प्राप्स्यति, यत्र प्रदेशस्य समस्तेभ्यः १३ जिलेभ्यः आगताः श्रद्धालवः एकत्र भविष्यन्ति। ततः हर्रावालरेलस्थानकात् मुख्यमन्त्री पुष्करसिंहधामी विशेषरेलयानं हरितध्वजं प्रदर्श्य गुजरातराज्यस्थितं प्रथमज्योतिर्लिङ्गं भगवान् सोमनाथधाम प्रति प्रेषयिष्यति।

सा अवदत् यत् अस्याः यात्रायाः उद्देश्यः प्रदेशस्य विविधवर्गीयान् जनान् देशस्य सांस्कृतिकेन आध्यात्मिकेन च वैभवेन सम्बद्धान् कर्तुम् अस्ति। यात्रायाः अवधौ उत्तराखण्डस्य समस्तेभ्यः १३ जिलेभ्यः पवित्रनदीनां जलेन पूर्णाः कलशाः अपि सोमनाथधामं प्रति नीयन्ते।

Hindusthan Samachar / Dheeraj Maithani