Enter your Email Address to subscribe to our newsletters

बहराइचम्, 13 जुलाईमासः (हि.स.)।
भारतीयजनतापक्षस्य प्रदेशाध्यक्षस्य पङ्कजचौधरीमहाभागस्य प्रथमागमनावसरे सोमवासरे सम्पूर्णे जनपदे उत्साहपूर्णं वातावरणं दृष्टम्। कैसरगञ्जतः पयागपुरपर्यन्तं स्थाने स्थाने भारतीयजनतापक्षस्य कार्यकर्तारः पुष्पमालाभिः पुष्पवृष्ट्या घोषैश्च तस्य हार्दिकं स्वागतम् अकुर्वन्। तेन सह भारतीयजनतापक्षस्य अवधक्षेत्रस्य क्षेत्रीयाध्यक्षः अवधेशद्विवेदी अपि उपस्थितः आसीत्।
पङ्कजचौधरी दिनपर्यन्तं विभिन्नस्थानेषु कार्यकर्तृभिः पदाधिकारिभिः च सह चर्चां करिष्यति तथा मिहीपुरवायां रात्रिविश्रामं करिष्यति। ततः सः मङ्गलवासरे लखीमपुरं प्रति प्रस्थास्यति।
कैसरगञ्जविधानसभाक्षेत्रे घाघराघाटे, भारतीयजनतापक्षकार्यालये, पुरैनीचौराहे तथा अन्येषु स्थानेषु प्रदेशाध्यक्षस्य स्वागताय बहुसंख्यकाः कार्यकर्तारः समर्थकाश्च समागताः आसन्। प्रदेशाध्यक्षः पङ्कजचौधरी कार्यकर्तॄन् सम्बोधयन् अवदत् यत् भारतीयजनतापक्षस्य महत्तमा शक्तिः तस्य समर्पिताः कार्यकर्तारः एव सन्ति। तेन मतदानकेन्द्रस्तरपर्यन्तं संगठनस्य अधिकसुदृढीकरणाय तथा सर्वकारस्य जनकल्याणकारियोजनानां लाभं अन्तिमजनपर्यन्तं प्रापयितुं कार्यकर्तारः प्रेरिताः।
अनन्तरं पयागपुरे अपि प्रदेशाध्यक्षस्य स्वागतं स्मरणीयम् अभवत्। बसस्थानकचतुष्पथः भारतीयजनतापक्षस्य ध्वजैः स्वागतपताकाभिश्च समलङ्कृतः आसीत्। यदा तस्य वाहनसमूहः आगतः तदा कार्यकर्तारः प्रबलघोषैः सह जेसीबीयानेन पुष्पवृष्टिं कृत्वा तस्य अभिनन्दनम् अकुर्वन्। स्वागतकार्यक्रमस्य नेतृत्वं क्षेत्रीयविधायकः सुभाषत्रिपाठी अकरोत्। तेन प्रदेशाध्यक्षाय माल्यार्पणं कृत्वा भारतीयसंस्कृतेः शौर्यस्य च प्रतीकरूपेण गदां समर्प्य सम्मानः कृतः।
प्रदेशाध्यक्षः कार्यकर्तॄणाम् अभिवादनं स्वीकृत्य संगठनस्य सुदृढीकरणाय आगामिकार्यक्रमेषु सक्रियसहभागितायै च आह्वानम् अकरोत्। सम्पूर्णकार्यक्रमे भारतमातायै जयः तथा भारतीयजनतापक्षः जयतु इति घोषैः वातावरणं निनादितम्। सुरक्षाव्यवस्थायै पुलिसप्रशासनं पूर्णतया सज्जम् आसीत्।
अस्मिन् अवसरे पूर्वमन्त्री मुकुटबिहारीवर्मा, पूर्वप्रत्याशी गौरववर्मा, क्षेत्रीयविधायकः सुभाषत्रिपाठी, भाजपाजिलाध्यक्षः बृजेशपाण्डेयः, विधानपरिषद्सदस्या डा प्रज्ञात्रिपाठी, विधानसभासंयोजकः निशङ्कत्रिपाठी, शिवानन्दसिंहः, विजयकुमारसिंहरैकवारः, पूर्वजिलापञ्चायताध्यक्षः ब्लाकप्रमुखः च सन्दीपसिंहविसेनः, विवेकसिंहविसेनः, प्रफुलराजसिंहः, डा अरविन्दसिंहविसेनः, शिवसहायसिंहः मुनीमजी, हिमांशुसिंहः, उमाशङ्करतिवारी, कपीशसिंहः, आनन्दपाण्डेयः, जिलापञ्चायतसदस्यः रामजनकसिंहः, सभासदप्रतिनिधिः बृजेशसिंहः तथा बहुसंख्यकाः भारतीयजनतापक्षस्य पदाधिकारिणः, जनप्रतिनिधयः, कार्यकर्तारः समर्थकाश्च उपस्थिताः आसन्। प्रदेशाध्यक्षस्य प्रथमागमनसमये आयोजितैः एतैः स्वागतकार्यक्रमैः भारतीयजनतापक्षस्य संगठनैकता, कार्यकर्तॄणाम् उत्साहः, जनाधारस्य प्रभावश्च स्पष्टतया प्रदर्शितः।
Hindusthan Samachar / Dheeraj Maithani