Enter your Email Address to subscribe to our newsletters


लखनऊनगरम्, १३ जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी-आदित्यनाथः तथा केन्द्रीय-सड़क-परिवहन-राजमार्गमन्त्री नितिन-गडकरी सोमवासरे लखनऊस्थिते मुख्यमन्त्रिणः आवासे ‘५-कालिदास-मार्गे’ प्रदेशे प्रचलमानानां राष्ट्रीय-राजमार्ग-परियोजनानां सम्बन्धे समीक्षासभाम् अकुरुताम्।
उल्लेखनीयं यत् अद्य रक्षामन्त्री राजनाथसिंहः, मुख्यमन्त्री योगी-आदित्यनाथः तथा केन्द्रीयमन्त्री नितिन-गडकरी लखनऊ-कानपुर-द्रुतमार्गस्य लोकार्पणं करिष्यन्ति। अस्मिन् अवसरे ते चतुःसहस्र-अष्टशत-पञ्चाशत्-कोटि-रूप्यकाणां व्ययेन निर्मितानां तिसृणां राष्ट्रीय-परियोजनानां लोकार्पणमपि करिष्यन्ति।
Hindusthan Samachar / Divya Ranjan