Enter your Email Address to subscribe to our newsletters

– मुख्यमन्त्रिणा योगिना ‘जनता-दर्शन’-कार्यक्रमः आयोजितः, प्रत्येकं पीडितस्य समस्यां श्रुत्वा समाधानाय निर्देशाः प्रदत्ताः
लखनऊनगरम्, १३ जुलाईमासः (हि.स.)। मुख्यमन्त्री योगी-आदित्यनाथः सोमवासरे ‘जनता-दर्शन’ कार्यक्रमम् आयोजितवान्। तेन प्रदेशस्य विभिन्नभागेभ्यः आगतान् सर्वान् अभ्यर्थिनः समागत्य तेषां निवेदनानि श्रुतानि तथा च सम्बन्धिताधिकारिभ्यः तासां समाधानाय निर्देशाः प्रदत्ताः। अवैध-अधिग्रहणसम्बद्धेषु प्रकरणेषु मुख्यमन्त्री अवदत् यत् सूचनाप्राप्तौ तादृशप्रकरणानां कठोरतया अन्वेषणं कृत्वा दोषिषु कठोरकार्यवाहीं क्रियताम्। तर्जनसम्बद्धेषु प्रकरणेषु सः अवदत् यत् उत्तरप्रदेशे अपराधिनां कृते स्थानं नास्ति, अतः आरक्षीबलम् एतादृशेषु जनेषु कठोरकार्यवाहीं करोतु।
अपराध-अवैधाधिग्रहणसम्बद्धप्रकरणानां विवेचनायां शीघ्रता भवतु
मुख्यमन्त्रिणः समक्षम् अवैध-अधिग्रहणसम्बद्धानि अनेकानि प्रकरणानि प्रस्तुतानि। पीडितैः आरोपितेषु तर्जनस्य आरोपोऽपि कृतः। मुख्यमन्त्री अभ्यर्थिनां प्रार्थनापत्राणि स्वीकृत्य शासनस्य अधिकारिभ्यः प्रेषितवान्। सः अवदत् यत् प्रदेशे अपराधिनां कृते किमपि स्थानं नास्ति। अवैधाधिग्रहणकर्तृषु तथा तर्जनकर्तृषु विरुद्धं कठोरकार्यवाहीं क्रियताम्। सहैव अपराध-अधिग्रहणसम्बद्धप्रकरणानां विवेचनायां शीघ्रता कार्या, येन पीडिताः समये न्यायं प्राप्नुयुः, दोषिणश्च दण्डं प्राप्नुयुः।
निर्माणकर्तुः विरुद्धं सूचनया आगताः जनाः, मुख्यमन्त्रिणा अन्वेषणस्य आदेशः प्रदत्तः
गाजियाबाद, मेरठ तथा नोएडा-सम्बद्धस्य एकस्य निर्माणकर्तुः विरुद्धं सूचनापि ‘जनता-दर्शन’ कार्यक्रमद्वारा मुख्य-मन्त्रिणः समीपम् उपस्थापिता। पीडितैः निवेदितं यत् तेन निर्माणकर्त्रा एकः एव सदनकक्षः अनेकेभ्यः जनेभ्यः पञ्जीकृतः। एतत् प्रकरणं मुख्यमन्त्रिणा गम्भीरतया गृहीतम्। तेन निर्देशः प्रदत्तः यत् अन्वेषणे निर्माणकर्ता दोषी चेत् तस्य विरुद्धं कठोरकार्यवाहीं क्रियताम् तथा च पीडितेभ्यः न्यायप्राप्तिः सुनिश्चिती-क्रियताम्।
Hindusthan Samachar / Divya Ranjan