जेपीसी अद्य श्वश्च उत्तरप्रदेशे एक राष्ट्र एक चुनाव इत्यस्मिन् विषये करिष्यति मंथनम्
लखनऊ, 13 जुलाईमासः (हि.स.)। ज्वाइण्ट् पार्लियामेण्टरी कमेटी (जेपीसी) स्वकीयस्य द्विदिवसीयस्य प्रवासस्य अन्तर्गतं लखनऊनगरम् आगता अस्ति। जेपीसी सोमवासरे मङ्गलवासरे च विविधक्षेत्राणां प्रमुखैः विशेषज्ञैः च सह अस्मिन् विषये मन्थनं करिष्यति। पूर्वकेन्द
अनुराग ठाकुर


लखनऊ, 13 जुलाईमासः (हि.स.)। ज्वाइण्ट् पार्लियामेण्टरी कमेटी (जेपीसी) स्वकीयस्य द्विदिवसीयस्य प्रवासस्य अन्तर्गतं लखनऊनगरम् आगता अस्ति। जेपीसी सोमवासरे मङ्गलवासरे च विविधक्षेत्राणां प्रमुखैः विशेषज्ञैः च सह अस्मिन् विषये मन्थनं करिष्यति।

पूर्वकेन्द्रीयमन्त्री लोकसभासांसदश्च अनुरागठाकुरः सोमवासरे अत्र माध्यमप्रतिनिधीन् सम्बोधयन् अवदत् यत् ज्वाइण्ट् पार्लियामेण्टरी कमेटी ‘वन नेशन वन इलेक्शन’ इति विषयम् अधृत्य उत्तरप्रदेशस्य प्रवासे वर्तते। अद्य अत्र मुख्यसचिवेन, पुलिसमहानिदेशकेन, उत्तरप्रदेशस्य मुख्यनिर्वाचनाधिकारेण अन्यैश्च समस्तैः वरिष्ठाधिकारिभिः सह उपवेशनं भविष्यति। एतेन सह बैंकाधिकारिणः, अन्ये अधिकारिणः, विविधसंस्थानानां प्रतिनिधयः, बारकाउन्सिलस्य पदाधिकारिणः, वरिष्ठविधिवेत्तारः च सहापि भेंटवार्ता भविष्यति। सर्वाणि उपवेशनानि सायंकालस्य सप्तवादनपर्यन्तं प्रवर्तिष्यन्ते।

अनुरागठाकुरः अवदत् यत् ततः परं मङ्गलवासरे प्रातःकालात् आरभ्य राजनीतिक्षेत्रसम्बद्धैः जनैः सह पार्लियामेण्टरी कमेट्याः उपवेशनं भविष्यति। निर्वाचितजनप्रतिनिधिभिः, विविधराजनीतिदलानां प्रतिनिधिभिः सह च भेंटवार्ता भविष्यति। ‘वन नेशन वन इलेक्शन’ इति विषये एतेषां सर्वेषां विचाराः ज्ञातुं प्रयासः क्रियते। सः अवदत् यत् यदि विधानसभायाः लोकसभायाश्च निर्वाचनं एकस्मिन्नेव समये भवेत् तर्हि तेन अनेकेषु विषयेषु महत् परिवर्तनं भवेत्। सम्पूर्णवर्षे निर्वाचनाचारसंहिता प्रवर्तमाना भवति। कदाचित् विधानसभानिर्वाचनम्, कदाचित् लोकसभानिर्वाचनम्, कदाचित् अस्य राज्यस्य निर्वाचनम्, कदाचित् अन्यस्य राज्यस्य निर्वाचनम् इति क्रमः निरन्तरं प्रवर्तते। एतेभ्यः सर्वेभ्यः मुक्तिः प्राप्तुं शक्यते। अधुना द्रष्टव्यं यत् विभिन्नराजनीतिदलानां अस्मिन् विषये के विचाराः सन्ति।---------

Hindusthan Samachar / Dheeraj Maithani