Enter your Email Address to subscribe to our newsletters

– २३ जुलाईमासतः ३० जुलाईमासपर्यन्तं मुड़िया-पूर्णिमा-राजकीय-मेलापकस्य आयोजनम्
– गतवर्षवत् प्रायः एककोटि-जनानां सहभागिता सम्भाव्यते
आगरानगरम्, १३ जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य कृष्णनगरी मथुरा-जनपदस्य गोवर्धने विगतवर्षमिव अस्मिन् वर्षेऽपि २३ जुलाईमासतः ३० जुलाईमासपर्यन्तं राजकीय-गोवर्धन-मुड़िया-पूर्णिमा-मेलापक: आयोजयिष्यते। अस्मिन् मेलापके लक्षाधिकानां श्रद्धालूनां सहभागितां दृष्ट्वा तेषां सुगम-आवागमनार्थम् उत्तरप्रदेश-राज्य-मार्ग-परिवहन-निगमेन आगरा-परिक्षेत्रस्य २५० बसयानै: सह १२०० अतिरिक्त-बसयानानां व्यवस्था क्रियते। अस्य कृते रोडवेज-विभागेन स्वीयाः सज्जताः प्रायः सम्पन्नाः कृताः।
भगवतः श्रीकृष्णस्य गोवर्धनधारण-लीलायां श्रद्धां वहन्तः भक्तजनाः वर्षपर्यन्तं गोवर्धनपर्वतस्य सप्त-कोशी-परिक्रामां कुर्वन्ति। किन्तु मुड़िया-पूर्णिमायाः विशेषावसरे अपारश्रद्धया प्रेरिताः लक्षशः श्रद्धालवः गोवर्धन-परिक्रमार्थम् आगच्छन्ति। गोवर्धने आयोजितः प्रसिद्धः ‘मुड़िया-पूर्णिमा-मेलः’ हिन्दू-पञ्चाङ्गस्य आषाढमासस्य पूर्णिमायां भवति। अयं मेलः आषाढमासस्य नवमीतिथेः आरभ्य पूर्णिमापर्यन्तं सप्तदिनानि प्रचलति। ब्रजप्रदेशे अयं ‘मुड़िया पूनो’ इति नाम्ना प्रसिद्धः। अस्मिन् पर्वणि २९ जुलाईमासे पूर्णिमातिथौ विशेष-पूजार्चना भविष्यति।
गोवर्धनस्य सप्त-कोशी-परिक्रमां समाप्त्य श्रद्धालवः बरसाना, वृन्दावनम्, नन्दग्रामः, गोकुलम्, मथुरा तथा अन्येषु प्रमुख-धार्मिक-स्थलेषु यमुना-घाटेषु च बहुसंख्यया गच्छन्ति। एतस्मिन्नवसरे मथुरायां अत्यधिकजनसमागमः भवति। एतेषु सप्तसु दिनेषु भीड-नियन्त्रणं मथुरा-प्रशासनस्य प्रमुखा समस्या भवति। श्रद्धालूनाम् आवागमनस्य सुविधार्थं अतिरिक्त-व्यवस्थाः अपि क्रियन्ते। उत्तरप्रदेश-रोडवेजः तथा रेलविभागः अपि अस्मिन् अवसरे अतिरिक्त-परिवहन-सेवाः सञ्चालयतः।
उत्तरप्रदेश-राज्य-मार्ग-परिवहन-निगमेन अस्मिन् वर्षे मुड़िया-पूर्णिमा-मेलाय श्रद्धालूनां सुविधार्थं प्रायः १२०० अतिरिक्त-बसानां व्यवस्था क्रियते। आग्रा-सहितम् उत्तरप्रदेशस्य षट्-परिक्षेत्रेभ्यः एताः बसाः मथुरां प्रेषिताः भविष्यन्ति।
उत्तरप्रदेश-राज्य-मार्ग-परिवहन-निगमस्य आग्रा-क्षेत्रीय-प्रबन्धकः बी. पी. अग्रवालः अवदत् यत् मथुरायां मेलाक्षेत्रं षट्सु क्षेत्रेषु विभाजितं भविष्यति। प्रत्येकस्य क्षेत्रस्य दायित्वं एकस्य ए. आर. एम. अधिकारिणः भविष्यति। आग्रा-सहितं प्रत्येक-परिक्षेत्रात् प्रायः द्विशत-पञ्चाशत् बसाः मथुराम् आगमिष्यन्ति, याः चयनित-स्थानात् गोवर्धनपर्यन्तं सञ्चालयिष्यन्ते। तासु प्रायः ११०० बसाः सञ्चालनार्थं सज्जाः भविष्यन्ति, शतं बसाः आरक्षिताः स्थापयिष्यन्ते। प्रत्येकस्यां बसायां द्वौ चालकौ भविष्यतः। मथुरातः गोवर्धनपर्यन्तं प्रति-यात्रिकं ५० रूप्यकाणि यात्राशुल्कं निर्धारितम् अस्ति।
तेनोक्तं यत् रोडवेज-बसानां निर्विघ्न-सञ्चालनार्थं इण्टरसेप्टर-दलम् तथा क्यूआरटी-दलम् अपि नियुक्तं भविष्यति, यत् आवश्यकतायां त्वरितं घटनास्थलं प्राप्य परिस्थितिं नियन्त्रयिष्यति। एते दलाः अन्यैः विभागैः सह समन्वयं करिष्यन्ति।
सः अवदत् यत् मुड़िया-पूर्णिमा-मेलापकार्थं श्रद्धालुभ्यः रोडवेज-बसयानानि मथुरा-जङ्क्शन-रेल-स्थानकस्य द्वितीय-प्रवेशद्वारात् उपलब्धाः भविष्यन्ति। गिरिराज-महाराजस्य दर्शन-परिक्रमानन्तरं श्रद्धालून् प्रत्यानीयमानाः बसाः धौली-प्याऊ-स्थितस्य तृतीय-प्रवेशद्वारे यात्रिकान् अवतारयिष्यन्ति। यदि गोवर्धने जनसमागमः अत्यधिकः भविष्यति, तर्हि बसयानानि परिक्रमा-मार्गात् पूर्वम् अडीङ्ग-नगरपर्यन्तमेव गमिष्यन्ति तथा प्रत्यागमने सौंख-मार्गेण मथुरां प्रत्यागमिष्यन्ति।
Hindusthan Samachar / Divya Ranjan