Enter your Email Address to subscribe to our newsletters



लखनऊ, 13 जुलाईमासः (हि. स.)। उत्तरप्रदेशे देशस्य सर्वाधिकाः क्षयरोगिणः सन्ति। भारतस्य प्रत्येकः पञ्चमः क्षयरोगी उत्तरप्रदेशस्य एव अस्ति। अतः उत्तरप्रदेशः क्षयरोगस्य राजधानी इति अपि कथ्यते। तथापि सर्वाधिकाः रोगिणः सन्ति इति स्थितौ अपि राज्ये क्षयरोगनियन्त्रणे निरन्तरं सफलता प्राप्यते। क्षयरोगस्य समये परिचयः परीक्षणम् उपचारः रोगिभ्यः पोषणसहायताप्रदानम् इत्यादिषु विविधेषु मानदण्डेषु उत्कृष्टकार्यस्य आधारेण उत्तरप्रदेशः क्षयरोगनियन्त्रणे देशस्य शीर्ष षट् राज्येषु समाविष्टः अभवत्। विशेषज्ञानां मते क्षयरोगस्य समूलोन्मूलनाय यथासम्भवं अधिकानां रोगिणां परिचयः तथा औषधसेवनस्य पूर्णपाठस्य पालनमेव सर्वाधिकं प्रभावी उपायः अस्ति।
क्षयरोगिणां सङ्ख्यायाः उत्थानपतनम्
केन्द्रीयस्वास्थ्यपरिवारकल्याणमन्त्रालयस्याङ्कानुसारम् २०२२ तमे वर्षे उत्तरप्रदेशे प्रायः पञ्चलक्षाः क्षयरोगिणः आसन्। २०२३ तमे वर्षे तेषां सङ्ख्या वर्धमाना ६.२४ लक्षपर्यन्तम् अभवत्। २०२४ तमे वर्षे ६.७३ लक्षाधिकाः क्षयरोगिणः परिचिताः अभवन्। एषा सङ्ख्या २०२४ तमे वर्षे केन्द्रीयक्षयरोगविभागेन निर्धारितात् ६.५ लक्षलक्ष्यात् अधिका आसीत्। ततः परं क्षयरोगिणां सङ्ख्यायां न्यूनता अभवत्। २०२४ तमे वर्षे दिसम्बरमासस्य सप्तमदिनात् आरभ्य २०२५ तमे वर्षे अक्टोबरमासस्य एकोनविंशतितमदिनपर्यन्तं उच्चजोखिमयुक्तानां २.३८ कोटिजनानां परीक्षणं कृतम्। तेषु ५.१४ लक्षेषु जनेषु क्षयरोगस्य पुष्टि अभवत्।
अस्मिन् वर्षे क्षयरोगिणां न्यूनता इति दावा
राज्यक्षयरोगाधिकारी डा. ऋषिकुमारसक्सेणेन उक्तं यत् उत्तरप्रदेशे अस्मिन् वर्षे मार्चमासस्य चतुर्विंशतितमदिनात् आरभ्य जुलैमासस्य प्रथमसप्ताहपर्यन्तं ३१ लक्षाधिकानां जनानां क्षयरोगपरीक्षणं कृतम्। अस्य कृते २५८२१ आयुष्मानारोग्यशिविराणि आयोजितानि। उच्चजोखिमयुक्तेषु २६ सहस्राधिकेषु ग्रामेषु वार्डेषु च २४ सहस्राधिकप्रदेशाः आच्छादिताः। अद्यावधि राज्ये १.८५ लक्षाः नूतनाः क्षयरोगिणः परिचिताः। डा. सक्सेणस्य अनुसारं २०२५ तमवर्षात् अद्यावधि उपलब्धाङ्काः दर्शयन्ति यत् २०२६ तमे वर्षे अपि क्षयरोगिणां सङ्ख्या न्यूना भविष्यति।
विमानस्थानकेषु यात्रिकाणां क्षयरोगपरीक्षणम्
राज्यक्षयरोगाधिकारिणा उक्तं यत् अन्तर्राष्ट्रीयराष्ट्रीयविमानस्थानकेषु क्षयरोगपरीक्षणं कुर्वन् उत्तरप्रदेशः देशस्य प्रथमं राज्यम् अस्ति। चौधरीचरणसिंहअन्तर्राष्ट्रीयविमानस्थानके लखनऊनगरे नोएडाअन्तर्राष्ट्रीयविमानस्थानके जेवरे लालबहादुरशास्त्रीअन्तर्राष्ट्रीयविमानस्थानके वाराणस्यां महायोगिगोरक्षनाथविमानस्थानके गोरखपुरे च हस्तधार्यक्षकिरणयन्त्रैः ८०० जनानां क्षयरोगपरीक्षणं कृतम्।
अभियाने जनप्रतिनिधीनां सहभागिता
डा. सक्सेणस्य अनुसारं राज्यपालः मुख्यमन्त्री स्वास्थ्यन्त्री उत्तरप्रदेशस्य अन्येषां राज्येषां च प्रायः २१२ मन्त्रिणः शतदिवसीयगहनक्षयरोगोन्मूलनाभियाने सहभागिनः अभवन्। उत्तरप्रदेशसहितं देशस्य १८२ सांसदाः ९०९ विधायकाः विधानपरिषदः सदस्याश्च राज्यस्य ८४५८ विद्यालयानां चत्वारि लक्षाणि छात्रछात्राः पञ्चसहस्रमहाविद्यालयानां माध्यमेन त्रिलक्षाधिकाः युवानः क्षयरोगविरुद्धे जनजागरूकताभियाने सम्बद्धाः अभवन्।
२.०६ लक्षाधिकाः पोषणपुटिकाः वितरिताः
अस्मिन् अभियाने नवसहस्राधिकाः नगरीयनिकायप्रतिनिधयः तथा ३४ सहस्राधिकाः पञ्चायतीराजजनप्रतिनिधयः ग्रामे ग्रामे गत्वा जनान् क्षयरोगविषये जागरूकान् अकुर्वन्। १३३०२ क्षयरोगविजेतारः क्षयरोगात् स्वास्थ्यं प्राप्तवन्तः अपि स्वस्वप्रदेशेषु जनान् क्षयरोगविषये जागरूकान् अकुर्वन्। रोगिभ्यः पोषणसामाजिकसहायताप्रदानार्थं ५ सहस्राधिकानां नवीननिक्षयमित्राणां पञ्जीकरणं कृतम्। एतेषां साहाय्येन अद्यावधि २.०६ लक्षाधिकाः पोषणपुटिकाः वितरिताः।
शरीरस्य सर्वेष्वङ्गेषु क्षयरोगः सम्भवति
बलरामपुरचिकित्सालयस्य वरिष्ठक्षयरोगविशेषज्ञः डा. आनन्दकुमारगुप्तः उक्तवान् यत् क्षयरोगः संसर्गजन्यः रोगः अस्ति। अयं माइकोबैक्टीरियमट्यूबरकुलोसिसनामकेन जीवाणुना भवति। केशान् नखान् च विहाय शरीरस्य कस्मिन्नपि अङ्गे क्षयरोगः सम्भवति। प्रायः ९० प्रतिशतप्रकरणेषु क्षयरोगः फुफ्फुसेषु भवति। अस्य नाम पल्मोनरीक्षयरोगः। यदि जीवाणुः फुफ्फुसान् विहाय शरीरस्य अन्यान्यङ्गानि प्रभावितवान् भवति तर्हि सः एक्स्ट्रापल्मोनरीक्षयरोगः इति कथ्यते।
प्रत्येकः संक्रमितः जनः क्षयरोगी न भवति
डा. गुप्तस्य मते क्षयरोगजीवाणुना संक्रमितः प्रत्येकः जनः रोगी न भवति। संक्रमणं रोगश्च भिन्नौ स्तः। यदा क्षयरोगजीवाणुः शरीरे प्रविश्य निष्क्रियावस्थायां तिष्ठति तदा सा लेटेन्टक्षयरोगावस्था कथ्यते। अस्यामवस्थायां किमपि लक्षणं न दृश्यते। जनः पूर्णतया स्वस्थः अनुभवति। तस्मै कापि व्याधिः न भवति। रोगप्रतिरोधकशक्तेः दुर्बलतायां जीवाणुः शरीरस्य अन्तः सक्रियः भूत्वा फुफ्फुसान् अथवा अन्यान्यङ्गानि प्रभावितुं शक्नोति। केवलं दशप्रतिशतजनानामेव सक्रियः क्षयरोगः भवति। उपचारे प्रमादात् एषः रोगः घातकः भवितुमर्हति।
अपूर्णः उपचारः अत्यन्तं घातकः
क्षयरोगविशेषज्ञेन उक्तं यत् क्षयरोगी यदा क्षवति कासते हसति अथवा निष्ठीवति तदा वायुमार्गेण सूक्ष्मबिन्दुषु जीवाणवः प्रसरणं कुर्वन्ति। तैः सह श्वासं गृह्णन् कश्चन जनः संक्रमितः भवितुमर्हति। तेन उक्तं यत् क्षयरोगस्य पूर्णोपचारः सम्भवः अस्ति यदि रोगी षण्मासपर्यन्तं नियमितरूपेण औषधानि सेवते। वैद्यस्य परामर्शं विना औषधत्यागेन रोगः पुनः अधिकगम्भीररूपेण बहुऔषधप्रतिरोधीयक्षयरोगरूपेण प्रत्यागन्तुं शक्नोति। अभिलेखानुसारं बलरामपुरचिकित्सालयस्य बहिरङ्गविभागे प्रतिदिनं सप्त अष्टौ वा क्षयरोगिणः आगच्छन्ति।-----------
Hindusthan Samachar / Dheeraj Maithani