Enter your Email Address to subscribe to our newsletters

वाराणसीनगरम्, १३ जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य वाराणसी-नगरे स्थिते श्रीकाशीविश्वनाथधाम्नि सोमवासरे वैदिक-मन्त्रोच्चारणस्य मध्ये श्री-अविमुक्तेश्वर-महादेवस्य रुद्राभिषेकः सम्पन्नः। श्रीकाशीविश्वनाथ-मन्दिर-न्यासस्य सङ्कल्पानुसारं प्रतिवर्षं प्रत्येक-सोमवासरे रुद्राभिषेकस्य सङ्कल्प-पाठस्य च अविच्छिन्ना परम्परा निर्विघ्नतया प्रवर्तते। मन्दिर-न्यासेन विशेष-प्रयोजनार्थं सङ्कल्पं कृत्वा पवित्र-स्थले विराजमानस्य श्री-अविमुक्तेश्वर-महादेवस्य रुद्राभिषेकः विधाय देशे प्रदेशे च सुख-शान्त्योः कामना कृता।
उल्लेखनीयं यत् श्रीकाशीविश्वनाथधाम्नि प्रतिवर्षं सोमवासरीय-रुद्राभिषेकस्य आयोजनं क्रियते। श्रीकाशीविश्वनाथ-मन्दिर-न्यासेन प्रत्येकं सोमवासरे रुद्राभिषेकस्य सङ्कल्प-पाठस्य च एषः अविरत-क्रमः निरन्तरं प्रवर्तते। अस्मिन्नवसरे मन्दिर-परिसरे शिव-भक्तानां विशालः जनसमागमः अभवत्। भक्तैः रुद्राभिषेक-अवसरे बाबा-विश्वेश्वरात् सुख-शान्ति-समृद्धीनां प्रार्थना कृता। सोमवासरे सम्पाद्यमानं एतत् रुद्राभिषेक-अनुष्ठानं भगवत: शिवस्य भक्तेः विशेष-दिवसत्वेन मन्यते। मन्दिर-न्यासस्य मतानुसारम् एतादृशैः धार्मिक-आयोजनैः न केवलं भक्तानाम् आस्था दृढा भवति, अपितु समाजे ऐक्यस्य सन्देशोऽपि प्रसारितः भवति। अस्य परम्परायाः प्रारम्भः २०२४ तमस्य वर्षस्य कार्तिक-मासस्य शुक्ल-पक्षस्य दशमी-तिथेः अभवत्।
Hindusthan Samachar / Divya Ranjan