रथयात्रा समितिभ्यो 5-5 लक्षस्य सर्वकारी सहायता, श्रावण मेलापकाय अपि विशेष व्यवस्था : शुभेंदु अधिकारी
कोलकाता, 13 जुलाईमासः (हि.स.)। पश्चिमबङ्गस्य मुख्यमन्त्री शुभेन्दु अधिकारी सोमवासरे राज्यस्य षष्टि रथयात्रासमितिभ्यः प्रत्येकं पञ्चलक्षरूप्यकाणां शासकीयसहायतां प्रदातुम् उद्घोषितवान्। तेन उक्तं यत् राज्यसर्वकारः अस्मिन् वर्षे रथयात्रामहोत्सवे केवलं
स्वास्थ्य भवन में शुभेंदु अधिकारी


कोलकाता, 13 जुलाईमासः (हि.स.)। पश्चिमबङ्गस्य मुख्यमन्त्री शुभेन्दु अधिकारी सोमवासरे राज्यस्य षष्टि रथयात्रासमितिभ्यः प्रत्येकं पञ्चलक्षरूप्यकाणां शासकीयसहायतां प्रदातुम् उद्घोषितवान्। तेन उक्तं यत् राज्यसर्वकारः अस्मिन् वर्षे रथयात्रामहोत्सवे केवलं प्रशासनिकस्तरे न, अपितु सक्रियरूपेण सहभागितां करिष्यति। मुख्यमन्त्री श्रावणमासे जलयात्रिकाणां श्रद्धालूनां च कृते विशेषसेवानामपि घोषणां कृतवान्।

मुख्यमन्त्री उक्तवान् यत् एषा सहायता राज्यस्य सांस्कृतिकधार्मिकपरम्पराणां संरक्षणाय तथा उत्सवेषु सर्वकारस्य सहभागितायाः एकः भागः अस्ति। तेन पूर्ववर्तिनः तृणमूलकाङ्ग्रेससर्वकारस्य आलोचना कृता। तस्य कथनानुसारं पूर्वं सर्वकारस्य भूमिका केवलं कतिपयानां यातायातपुलिसकर्मचारिणां नियुक्त्यन्तमेव सीमिता आसीत्, यदा तु वर्तमानसर्वकारः प्रधानमन्त्री नरेन्द्रमोदिनः विकासविरासत इति मन्त्रं आधारीकृत्य कार्यं करोति।

तेन उक्तं यत् अस्मिन् समये राज्यसर्वकारः रथयात्रामहोत्सवे आधिकारिकरूपेण सक्रियरूपेण च सम्मिलिष्यति, येन एषः ऐतिहासिकः पारम्परिकश्च महोत्सवः अधिकं सुव्यवस्थितः भव्यश्च भवेत्।

मुख्यमन्त्री श्रावणमेलाकाले जलयात्रिकाणां कृते विशेषसुविधानामपि घोषणां कृतवान्। तेन उक्तं यत् शेवडाफुलीतः तारकेश्वरधामपर्यन्तं मार्गे प्रत्येकेषु पञ्चकिलोमीटरमितेषु सेवा केन्द्राणि स्थाप्यन्ते। एतदतिरिक्तं तारकेश्वरधाम्नः विकासाय सौन्दर्यवर्धनाय च पञ्चदशकोटिरूप्यकाणां परियोजनासु कार्यं प्रचलति।

तेन उक्तं यत् जलयात्रिकाणां सुविधार्थं राज्यसर्वकारेण त्रीणि प्रमुखधार्मिकस्थानानि सेवा केन्द्रत्वेन चयनितानि। तेषु जलपाईगुडेः जाल्पेशमन्दिरम्, भूटानसीमासमीपस्थितः जयन्तीप्रदेशस्य प्रमुखः देवालयः, तारकेश्वरधाम च अन्तर्भवन्ति। एतेषां तीर्थस्थानानां समीपे श्रद्धालुभ्यः सर्वाः आवश्यकसुविधाः प्रदास्यन्ते।

मुख्यमन्त्री उक्तवान् यत् सर्वकारस्य उद्देश्यं धार्मिकश्रद्धां सांस्कृतिकविरासतं विकासं च समन्वयेन अग्रे नेतुम् अस्ति, येन राज्यस्य प्रमुखधार्मिकसमारोहेषु श्रद्धालवः अधिकाः उत्तमाः सुविधाः प्राप्नुयुः।----------------

Hindusthan Samachar / Dheeraj Maithani