Enter your Email Address to subscribe to our newsletters

नलबाड़ी (असमः), 13 जुलाईमासः (हि.स.)।
असमसर्वकारेण वन्यगजैः धान्यशस्यस्य हानिं प्राप्नुवतां कृषकाणां कृते शासकीयसहायतायाः घोषणा कृता। कृषिमन्त्री जयन्तमल्लबरुवः अवदत् यत् यदि वन्यगजाः कृषकाणां धान्यक्षेत्राणि नाशयन्ति तर्हि प्रभावितकृषकेभ्यः प्रति बीघा ८,००० रूप्यकाणां सहायतराशिः प्रदास्यते।
मन्त्रिणा एषा घोषणा नलबाडीजिलायाः कटाहकुचिस्थाने गजाक्रमणे प्राणान् त्यक्तवत: अननकलितस्य निवासम् उपगम्य कृता। अस्मिन् अवसरे तेन शोकसन्तप्तपरिवाराय चतुर्लक्षरूप्यकाणाम् एकमुष्टिसहायतराशेः धनादेशः समर्पितः तथा परिवारं प्रति गाढा संवेदना अपि व्यक्ता।
-----------
Hindusthan Samachar / Dheeraj Maithani