Enter your Email Address to subscribe to our newsletters

वॉशिंगटनम्, 14 जुलाईमासः (हि.स.)।
अमेरिकादेशस्य राष्ट्रपतिः डोनाल्ड ट्रम्पः होर्मुजजलसन्धेः नियन्त्रणग्रहणस्य संकेतं प्रदत्तवान्। ट्रम्पः उक्तवान् यत् अमेरिका होर्मुजजलसन्धेः सुरक्षां करिष्यति तथा तस्य प्रतिदाने तत्र गच्छद्भ्यः सर्वेभ्यः जलयानभ्यः विंशतिप्रतिशतपरिमितं शुल्कं संग्रहीष्यति।
दक्षिणकोरियादेशस्य राजकीयवार्तासंस्था योनहापन्यूज इत्यनया प्रकाशितं यत् ट्रम्पः स्वस्य सामाजिकमाध्यमे ट्रुथसोशल इत्यत्र अलिखत् यत् अमेरिका ईरानीबन्दरगाहेषु स्वनौसैनिकनिरोधं पुनः प्रवर्तयति। अयं निरोधः कतिपयपूर्वसप्ताहेषु एव निरस्तः आसीत्, किन्तु पश्चिमासियादेशे प्रवर्तमानसंघर्षस्य मध्ये अस्याः जलसन्धेः माध्यमेन तैलस्य प्राकृतिकवायोः अन्यसामग्रीणां च व्यापारपरिवहने निरन्तराः बाधाः अभवन्।
ट्रम्पः उक्तवान् यत् होर्मुजजलसन्धिः उद्घाटिता अस्ति तथा ईरानेन सह अथवा तद्विना अपि उद्घाटितैव भविष्यति। वयं पुनरपि ईरानीनिरोधं प्रवर्तयामः। अस्य नाम एतादृशं कृतम् यतः अयं केवलम् ईरानीयानान् अथवा तेषां ग्राहकान् प्रवेशात् निर्गमात् च निरोद्धुं प्रयुज्यते। अन्ये सर्वे देशाः अस्याः जलसन्धेः निष्पक्षतया मुक्तरूपेण च उपयोगं कर्तुं शक्नुवन्ति।
अधुना प्रभृति अमेरिका होर्मुजजलसन्धेः संरक्षकः इति ज्ञास्यते। परन्तु अस्यां भूमिकायां निष्पक्षतां पालनार्थं जगतः अस्य अतीव संवेदनशीलप्रदेशस्य सुरक्षा संरक्षणं च सुनिश्चितीकर्तुं यावन्तः आवश्यकव्ययाः भविष्यन्ति तेषां पूर्त्यर्थं अत्रतः प्रेष्यमाणेषु सर्वेषु मालवाहकेषु विंशतिप्रतिशतपरिमितं शुल्कं संग्रहीष्यते। सः अवदत् यत् एषा प्रक्रिया तत्क्षणमेव प्रारभ्यते।
अधुना एतत् न स्पष्टम् अस्ति यत् विंशतिप्रतिशतात्मकं शुल्कं होर्मुजजलसन्धेः माध्यमेन प्रेष्यमाणस्य सर्वस्य मालभारस्य मूल्यम् आधृत्य भविष्यति उत सुरक्षितसमुद्रपरिवहनार्थम् आवश्यकव्ययस्य आधारेण निर्धारितं भविष्यति। श्वेतभवनमपि अस्मिन् विषये किमपि स्पष्टीकरणं न दत्तवान्।
नौसैनिकनिरोधस्य पुनः प्रवर्तनसम्बन्धे अमेरिकादेशस्य सेन्ट्रलकमान्ड इत्यस्य वक्तव्ये उक्तं यत् तस्य सैन्यबलानि मङ्गलवासरे वाशिङ्गटनसमयानुसारं सायं चतुर्वादने ईरानीबन्दरगाहेषु आगच्छन्तं निर्गच्छन्तं च समुद्रपरिवहनं पुनः निरोद्धुं प्रारप्स्यन्ति। सेन्ट्रलकमान्डस्य सैन्यबलानि ईरानीबन्दरगाहेषु तटीयप्रदेशेषु च आगच्छद्भ्यः निर्गच्छद्भ्यः च जलयानेभ्यः निरोधं प्रवर्तयिष्यन्ति। अमेरिकीयसेना तेषां सर्वेषां जलयानानां कृते प्रादेशिकसमुद्रसीमासु यातायातप्रवाहस्य समर्थनं निरन्तरं करिष्यति ये निरोधस्य उल्लङ्घनं न कुर्वन्ति। अयं निर्णयः एप्रिलमासस्य त्रयोदशदिनात् जूनमासस्य अष्टादशदिनपर्यन्तं प्रवर्तितानां प्रारम्भिकोपायानाम् अनन्तरं गृहीतः।
सेन्ट्रलकमान्डस्य अनुसारं तस्मिन् अवधौ अमेरिकीयसेनया नियमपालनशीलानां चत्वारिंशदधिकशतं जलयानानां मार्गः परिवर्तितः, नियमान् न पालयन्तः नव जलयानाः निष्क्रियीकृताः, मानवतासहायतां वहन्तः पञ्चाशदधिकशतं व्यापारजलयानाः निरोधं लङ्घयितुं अनुमताः।
उल्लेखनीयम् अस्ति यत् अमेरिका ईरानयोः पुनरारब्धेन युद्धेन होर्मुजजलसन्धौ तनावः वर्धितः। अमेरिकीयसेनया पूर्वम् उक्तम् आसीत् यत् ईरानेन अस्याः जलसन्धेः माध्यमेन गच्छत्सु व्यापारजलयानेषु आक्रमणं कृतम्। तस्य प्रतिकारात्मकव्यवहारेण पूर्णयुद्धस्य आशङ्का समुत्पन्ना।
ईरानः अस्याः जलसन्धेः नियन्त्रणं प्राप्तुं दीर्घकालात् प्रयतमानः आसीत्, यदा तु ट्रम्पप्रशासनम् एतां अन्तरराष्ट्रीयजलमार्गम् इति मन्यमानं सुरक्षितसमुद्रपरिवहनस्य पुनर्स्थापनाय निरन्तरं बलं दत्तवत्।
अन्यस्मिन् दूरदर्शनमार्गे प्रदत्ते साक्षात्कारे ट्रम्पः उक्तवान् यत् अमेरिका अस्याः जलसन्धेः नियन्त्रणं धारयिष्यति तथा तस्य संचालनमपि करिष्यति, अतः अस्य नियन्त्रणस्य कृते तस्मै धनप्राप्तिः अपेक्षिता।
सः अवदत् यत् वयं अस्याः जलसन्धेः नियन्त्रणं स्वहस्ते स्थापयिष्यामः तथा सम्भवतः वयमेव तस्य संचालनं करिष्यामः। वयं अस्याः जलसन्धेः संरक्षकाः भविष्यामः। सम्भवति यत् अस्माभिः अस्य नाम जलसन्धेः संरक्षकदेवदूतः इति विधास्यते तथा अस्य कृते अस्मभ्यं धनं प्राप्तव्यम्।
-------------
Hindusthan Samachar / Dheeraj Maithani