अंताराष्ट्रिय संगोष्ठी ‘सौश्रुतम् 2026’ इत्यस्याः उद्घाटनं करिष्यति राष्ट्रपतिः
नव दिल्ली, 14 जुलाईमासः (हि.स.)। राष्ट्रपतिः द्रौपदीमुर्मु बुधवासरे नवदिल्लीस्थे अखिलभारतीयआयुर्वेदसंस्थाने आयोजितस्य त्रिदिवसीयस्य अन्तरराष्ट्रीयसंगोष्ठ्याः सौश्रुतम् २०२६ इत्यस्य उद्घाटनं करिष्यति। आयुषमन्त्रालयस्य अधीनम् आयोजिता एषा संगोष्ठी ज
आयुष मंत्रालय


नव दिल्ली, 14 जुलाईमासः (हि.स.)।

राष्ट्रपतिः द्रौपदीमुर्मु बुधवासरे नवदिल्लीस्थे अखिलभारतीयआयुर्वेदसंस्थाने आयोजितस्य त्रिदिवसीयस्य अन्तरराष्ट्रीयसंगोष्ठ्याः सौश्रुतम् २०२६ इत्यस्य उद्घाटनं करिष्यति। आयुषमन्त्रालयस्य अधीनम् आयोजिता एषा संगोष्ठी जुलाईमासस्य १५ तः १७ दिनाङ्कपर्यन्तं प्रवर्तिष्यते, यदा १४ जुलाई दिनाङ्के पूर्वकार्यशाला आयोजिता भविष्यति।

आयुषमन्त्रालयस्य अनुसारम् एषः कार्यक्रमः शल्यचिकित्सायाः जनकत्वेन विख्यातस्य आचार्यसुश्रुतस्य जयन्त्याः अवसरः निमित्तीकृत्य आयोजितः अस्ति। संगोष्ठ्याम् आयुर्वेदस्य आधुनिकशल्यचिकित्साविज्ञानस्य च एकीकरणविषये देशविदेशेभ्यः आगताः विशेषज्ञाः विचारविमर्शं करिष्यन्ति। कार्यक्रमस्य अवसरे एनसीआईएसएम संस्थया सिद्धीकृतम् आयुर्वेदमहिलास्नातकानां व्यावसायिकजीवनस्य मूल्याङ्कनम् इति विषयकं राष्ट्रियाध्ययनं प्रकाशितं भविष्यति। सहैव चतुर्दशदशमलबिन्दुपञ्चकोटिरूप्यकव्ययेन स्थापितायाः अत्याधुनिकायाः त्रिटेस्ला उच्चक्षेत्रीय एमआरआई प्रणालीयाः अपि उद्घाटनं भविष्यति, यस्याम् कृत्रिमबुद्धिसक्षमकार्यप्रवाहः, जैवपरिचयव्यवस्था, उन्नतप्रतिबिम्बनसुविधाश्च उपलब्धाः भविष्यन्ति।

त्रिदिवसीयायां संगोष्ठ्याम् मुख्यव्याख्यानानि, परिसंवादाः, कार्यशालाः, वैज्ञानिकशोधपत्रप्रस्तुतयः च आयोजिष्यन्ते। मलाशयरोगविज्ञानम्, पुनर्निर्माणशल्यचिकित्सा, एकीकृतऑन्कोलॉजी, चिकित्साविधिसम्बद्धविषयाः तथा शल्यचिकित्सायां बौद्धिकसम्पदः इत्यादिषु विषयेषु विशेषसत्राणि भविष्यन्ति। एतदतिरिक्तम् व्रणव्यवस्थापनम्, अग्निकर्म, क्षारसूत्रम्, मर्मचिकित्सा च इत्यादीनां आचार्यसुश्रुतप्रणीतानां शल्यसिद्धान्तानामपि चर्चा भविष्यति।

अस्मिन् अन्तरराष्ट्रीयकार्यक्रमे थाइलैण्ड, इजराइल, ऑस्ट्रिया, संयुक्तराज्यम्, श्रीलङ्का, इण्डोनेशिया, नेपाल, ग्रीस तथा भारतस्य प्रतिष्ठिताः शल्यचिकित्सकाः, शिक्षाविदः, शोधकर्तारः च सहभागिनः भविष्यन्ति। उद्घाटनसमारोहे केन्द्रीयआयुषराज्यमन्त्री स्वतन्त्रप्रभारयुक्तः प्रतापरावजाधवः, दिल्ल्याः उपराज्यपालः तरणजीतसिंहसन्धू, सांसदः रामवीरसिंहबिधूडी तथा आयुषमन्त्रालयस्य सचिवः वैद्यराजेशकोटेचा अपि उपस्थिताः भविष्यन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani