Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १४ जुलाईमासः (हि.स.)। विश्वस्य बृहत्तमस्य चतुर्दिवसीयस्य वस्त्र-विपणि-मेलापकस्य ‘भारत-टेक्स २०२६’ प्रथमदिवसे मङ्गलवासरे केन्द्रीय-वस्त्र-मन्त्री गिरिराजसिंहः उक्तवान् यत् एष: प्रयत्न: भारतं अधिकं सशक्तं करिष्यति तथा वैश्विक-वस्त्र-क्षेत्रे अग्रणी-भूमिकां निर्वहणे महत्त्वपूर्णं योगदानं दास्यति।
गिरिराजसिंहः नवदिल्लीस्थिते भारत-मण्डपे आयोजितस्य वैश्विक-वस्त्र-महोत्सवस्य ‘भारत-टेक्स् २०२६’ उद्घाटन-सत्रम् सम्बोधयन् उक्तवान्—“अद्य नूतन-ऊर्जया, नूतन-आत्मविश्वासेन महत्याशया च सह ‘भारत-टेक्स’ इत्यस्य उद्घाटनम् अभवत्। एषः भव्यः महोत्सवः भारतस्य समृद्धां वस्त्र-परम्परां, आधुनिक-नवाचारं तथा वैश्विक-सहभागितां एकसूत्रे ग्रथ्नाति। एषः देशस्य वस्त्रोद्योगे नूतनां गतिं नूतनां परिचयं च प्रदातुं महत्त्वपूर्णः पदक्षेपः अस्ति। एष: प्रयत्न: भारतं अधिकं सशक्तं करिष्यति तथा वैश्विक-वस्त्र-क्षेत्रे अग्रणी-भूमिकां निर्वहणे महत्त्वपूर्णं योगदानं दास्यति।”
अस्मिन् महोत्सवे न्यूजीलैण्ड-श्रीलङ्का-जॉर्डन-कम्बोडिया-ब्रुनेई-देशानां मन्त्री-स्तरीय-प्रतिनिधिमण्डलानि सहभागीन: भविष्यन्ति। विंशत्यधिक-देशेभ्यः आगताः त्रिशताधिक-पञ्चाशत् वक्तारः तथा अन्ताराष्ट्रिय-निर्यातकाः अपि सहभागं करिष्यन्ति। प्रदर्शिन्याः अवधौ भारत-अमेरिका-कर्पास-सहभागिता तथा भारत-ब्रिटेन-मुक्त-व्यापार-सन्धि: इत्यादिषु महत्त्वपूर्णेषु विषयेषु द्विपक्षीय-चर्चाः भविष्यन्ति। एतदतिरिक्तं वस्त्र-क्षेत्रे नूतन-प्रौद्योगिकी, धारणीय-विकासः तथा एमएसएमई-क्षेत्रस्य कृते शताधिकानि ज्ञान-सत्राणि आयोज्यन्ते।
अस्मिन् महोत्सवे ३९ समूह-चर्चाः, १६ गोलमेज-समागमाः, ३७ मास्टरक्लास-सत्राणि तथा ८ राज्यस्तरीय-सत्राणि समाविष्टानि सन्ति, येषां पञ्चाशदधिकैः ज्ञान-सहभागिभिः समर्थनं प्रदत्तम् अस्ति।
अस्मिन् अवसरे व्यापार-प्रोत्साहनाय पर्यावरण-संरक्षणाय च ‘सीआईटीआई टेक्स्टाइल सस्टेनेबिलिटी अवार्ड् २०२६’ इति पुरस्काराः अपि प्रदास्यन्ते। अस्मिन् वर्षे व्यापारं सुकरं दत्तांश-आधारितं च कर्तुं ‘भारत-टेक्स’ स्वस्य चलदूरभाष-अनुप्रयोगं तथा डिजिटल-व्यापार-मञ्चं प्रारब्धवान्।
Hindusthan Samachar / Divya Ranjan