Enter your Email Address to subscribe to our newsletters

लोकतन्त्रस्य मन्दिरात् पर्यावरण-संरक्षणस्य मातृ-सम्मानस्य च सशक्तः सन्देशः
रायपुरम्, १४ जुलाईमासः (हि.स.)। छत्तीसगढ-विधानसभायाः पावस-सत्रस्य समये अद्य मङ्गलवासरे विधान-सभापरिसरः हरितिमया, जन-सहभागितया मातृ-सम्मान-भावेन च समन्वितः अभवत्। ‘एकः पादपः मातुः नाम्ना ३.०’ अभियानस्य अन्तर्गतं आयोजिते वृहद्-वृक्षारोपण-कार्यक्रमे विधानसभाध्यक्षः डॉ. रमनसिंहः, मुख्यमन्त्री विष्णुदेव-सायः, प्रतिपक्ष-नेता डॉ. चरणदास-महन्तः, उपमुख्यमन्त्री विजय-शर्मा, उपमुख्यमन्त्री अरुण-सावः, संसदीय-कार्य-मन्त्री केदार-कश्यपः तथा विधानसभायाः सर्वे सदस्याः पादपारोपणं कृत्वा पर्यावरण-संरक्षणस्य सङ्कल्पं पुनरुच्चारितवन्तः।
अयं सङ्कल्पः केवलं वृक्षारोपण-कार्यक्रमः नासीत्, अपितु प्रकृतेः संरक्षणस्य, मातृत्वस्य सम्मानस्य तथा भावि-वंशानां कृते सुरक्षित-हरित-भविष्य-निर्माणस्य सामूहिक-सङ्कल्परूपेण प्रकटितः। कार्यक्रमस्य समये सर्वे जनप्रतिनिधयः अभियानस्य विशेष-सेल्फी-बिन्दौ छायाचित्राणि गृहीत्वा प्रदेशवासिनः अधिकाधिकं पादपारोपणं तेषां संरक्षणं च कर्तुम् आहूतवन्तः।
मुख्यमन्त्री विष्णुदेव-सायः रुद्राक्ष-पादपम् आरोपितवान्। अस्मिन्नवसरे सः उक्तवान् यत् यशस्विना प्रधानमन्त्रीणा नरेन्द्र-मोदिना प्रदत्तस्य आह्वानस्य फलरूपेण प्रारब्धम् ‘एकः पादपः मातुः नाम्ना’ अभियानम् अद्य सम्पूर्णे देशे जनान्दोलनस्य स्वरूपं प्राप्तम्। इदमभियानं केवलं पादपारोपणपर्यन्तं सीमितं नास्ति, अपितु मातरं प्रति कृतज्ञतायाः, प्रकृतिं प्रति संवेदनशीलतायाः तथा भावि-वंशान् प्रति उत्तरदायित्वस्य सशक्तं प्रतीकम् अस्ति। सः अवदत् यत् यदा कश्चित् स्वमातुः नाम्ना पादपम् आरोपयति, तदा तेन सह भावनात्मकः सम्बन्धः अपि जायते, येन सः स्वयमेव तस्य संरक्षणाय प्रेरितो भवति। एष एव भावः अभियानम् स्थायी, प्रभावी, जनसहभागिता-आधारितं च करोति।
मुख्यमन्त्री सायः अवदत् यत् छत्तीसगढ-विधानसभायां विधायकैः स्वमातॄणां नाम्ना पादपारोपणम् अत्यन्तं प्रेरणादायी प्रयत्न: अस्ति। विधानसभापरिसरात् प्रदत्तः अयं सन्देशः सम्पूर्णे प्रदेशे पर्यावरण-संरक्षणस्य विषये नूतनां जागरूकतां जनयिष्यति। अभिनवस्य अस्य आयोजनस्य कृते सः विधानसभाध्यक्षं डॉ. रमनसिंहं धन्यवादम् अर्पयन् उक्तवान् यत् एष: प्रयत्न: समाजे वृक्षारोपणं जनान्दोलनरूपेण स्थापयितुं महत्त्वपूर्णां भूमिकां निर्वहिष्यति।
मुख्यमन्त्री उक्तवान् यत् अद्य सम्पूर्णं विश्वं जलवायु-परिवर्तनम्, वैश्विक-उष्णता, अनियमित-वृष्टिः, वर्धमान-तापमानम् तथा जैव-विविधतायाः ह्रासः इत्यादीनां गम्भीर-समस्यानां सम्मुखिनं करोति। एतादृशेषु परिस्थितिषु वृक्षारोपणं केवलं पर्यावरणीय-कार्यक्रमः न, अपितु मानव-जीवनस्य सुरक्षा, प्राकृतिक-संसाधनानां संरक्षणं तथा भावि-वंशानां भविष्यस्य सुरक्षायाः अत्यन्तं प्रभावकारी साधनम् अस्ति। वृक्षाः पृथिव्याः सन्तुलनस्य आधाराः सन्ति। ते अस्मभ्यं शुद्ध-वायुम्, जल-संरक्षणम्, जैव-विविधता-संरक्षणम् तथा स्वस्थ-पर्यावरणं प्रयच्छन्ति। अतः प्रत्येकं नागरिकेण स्वजीवने न्यूनातिन्यूनम् एकः पादपः अवश्यं रोपणीयः, तस्य पालनं च परिवारस्य सदस्यस्य इव आत्मीयतया करणीयम्।
मुख्यमन्त्री सायः अवदत् यत् राज्यसर्वकारः विकसित-छत्तीसगढ-निर्माणेन सह पर्यावरण-संरक्षणमपि सर्वोच्च-प्राथमिकतया पश्यति। प्रदेशे वन-संरक्षणम्, हरित-आवरण-वृद्धिः, जल-संरक्षणम्, जैव-विविधता-संवर्धनम् तथा जनसहभागिता-आधारित-पर्यावरणीय-अभियानानां निरन्तरं प्रोत्साहनं दीयते। सः विश्वासं व्यक्तवान् यत् ‘एकः पादपः मातुः नाम्ना ३.०’ अभियानं प्रदेशस्य ग्रामे ग्रामे, नगरे नगरे, प्रत्येकस्मिन् परिवारे च प्रसारितं भविष्यति तथा प्रकृति-संरक्षणं सामाजिक-दायित्वस्य जनान्दोलनस्य च स्वरूपं प्राप्स्यति। यदि प्रत्येकः नागरिकः स्वमातुः नाम्ना एकं पादपम् आरोप्य तस्य संरक्षणस्य सङ्कल्पं गृह्णीयात्, तर्हि आगामिषु वर्षेषु एषः आदर्शः भविष्यति।
कार्यक्रमे विधानसभायाः सर्वे सदस्याः उत्साहपूर्वकं सहभागं कृत्वा स्वमातॄणां नाम्ना विविध-प्रजातीनां पादपान् आरोप्य तेषां संरक्षणस्य सङ्कल्पम् अगृह्णन्। अस्मिन्नवसरे वन-जलवायु-परिवर्तन-विभागस्य प्रमुख-सचिवः मनोजकुमार-पिङ्गुआ, प्रधान-मुख्य-वन-संरक्षकः वनबल-प्रमुखश्च अरुण-पाण्डेयः, अन्ये वरिष्ठ-अधिकारिणः, जनप्रतिनिधयः तथा वन-विभागस्य अधिकारिणः कर्मचारीणश्च उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan