Enter your Email Address to subscribe to our newsletters

रायपुरम् 14 जुलाईमासः (हि.स.)।
छत्तीसगढराज्यस्य वित्तमन्त्री ओपीचौधरी कोलम्बियादेशे आयोजिते षट्पञ्चाशत्तमे अन्ताराष्ट्रियभौतिकीओलम्पियाडे (आईपीएचओ) २०२६ स्वर्णपदकविजयिनः कनिष्कजैनम्, रिद्धेशअनन्तबेण्डाले इत्येतम्, ऋषितगर्गं, श्रेष्ठसुरैयामं तथा स्वरितजोशीम् हार्दिकाभिः शुभकामनाभिः अभिनन्दितवान्।
वित्तमन्त्री मङ्गलवासरे उक्तवान् यत् एषा विद्यार्थिनां ऐतिहासिकी उपलब्धिः सम्पूर्णदेशस्य गौरवस्य विषयः अस्ति। तेषां स्वप्रतिभया, कठोरपरिश्रमेण, वैज्ञानिकदृष्ट्या च न केवलं स्वकीयाम् उत्कृष्टतां प्रदर्शितवन्तः, अपितु विश्वमञ्चे भारतस्य मानमपि वर्धितवन्तः।
तेन उक्तं यत् अन्ताराष्ट्रियस्तरे भारतीयविद्यार्थिनां निरन्तरम् उत्कृष्टप्रदर्शनं देशस्य युवा-प्रतिभानां सामर्थ्यस्य वैज्ञानिकदृष्टिकोणस्य च प्रमाणम् अस्ति। एषा सफलता देशस्य विद्यार्थिनः ज्ञानस्य, अनुसन्धानस्य, नवाचारस्य च क्षेत्रेषु अग्रे प्रगतुं प्रेरयिष्यति।
वित्तमन्त्री ओपीचौधरी सर्वान् स्वर्णपदकविजेतॄन्, तेषाम् अभिभावकान्, आचार्यांश्च अस्याः गौरवपूर्णायाः उपलब्धेः निमित्तम् अभिनन्द्य तेषां उज्ज्वलभविष्यस्य शुभकामनाः व्यक्तवान्। तेन विश्वासः अपि व्यक्तः यत् ते भविष्येऽपि विश्वपटलम् उपरि भारतस्य यशः निरन्तरं वर्धयिष्यन्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani