छत्तीसगढम् : विधानसभायाम् अद्य कांग्रेस अविश्वास प्रस्तावः प्रस्तोष्यते
रायपुरम्, 14 जुलाईमासः(हि.स.)। छत्तीसगढविधानसभायाः वर्षाकालीनसत्रस्य द्वितीयदिने मङ्गलवासरे विष्णुदेवसायसर्वकारस्य विरुद्धं काङ्ग्रेसदलम् अविश्वासप्रस्तावं प्रस्तोष्यति। राज्यगठनानन्तरं विधानसभायाम् अयं दशमः अविश्वासप्रस्तावः भविष्यति। विपक्षस्य
छत्तीसगढ़ विधानसभा


रायपुरम्, 14 जुलाईमासः(हि.स.)।

छत्तीसगढविधानसभायाः वर्षाकालीनसत्रस्य द्वितीयदिने मङ्गलवासरे विष्णुदेवसायसर्वकारस्य विरुद्धं काङ्ग्रेसदलम् अविश्वासप्रस्तावं प्रस्तोष्यति। राज्यगठनानन्तरं विधानसभायाम् अयं दशमः अविश्वासप्रस्तावः भविष्यति। विपक्षस्य नेता डाक्टर चरणदासमहन्तः उक्तवान् यत् वर्तमानभारतीयजनतापक्षसर्वकारस्य प्रति जनतायाः विपक्षस्य च विश्वासः पूर्णतया समाप्तः अभवत्।

एतेन सह प्रश्नकाले जलजीवनमिशनम्, रायपुरस्य पेयजलव्यवस्था, औद्योगिकदुर्घटनाः, मद्यविक्रयकेन्द्राणि, शासकीयकार्यक्रमेषु व्ययः तथा प्राथमिकविद्यालयेषु शिक्षकाणां रिक्तपदानि इत्यादिषु बहुषु विषयेषु अपि सर्वकारात् उत्तराणि याचिष्यन्ते। एतदतिरिक्तं नवारायपुरस्य नकटीग्रामे निर्धनजनानां गृहेषु कृता बुलडोजरकार्यवाही इति विषये काङ्ग्रेसदलम् स्थगनप्रस्तावमपि आनयिष्यति। राज्ये अवनम्यमाना विधिव्यवस्था तथा वर्धमानाः अपराधाः इत्येतयोः विषये प्रश्नाः अपि प्रस्तूयन्ते। प्रदेशे गभीरतां गच्छन् विद्युत्संकटः तथा वर्धिताः विद्युत्शुल्काः इत्यस्य विषयः प्रमुखतया उत्थाप्यते। उर्वरकबीजानां दुर्लभता तथा सरषपक्रयस्य समयात् पूर्वं समाप्तत्वात् कृषकाणां जातहानिः अपि चर्चायाः विषयः भविष्यति। कोयलाखननार्थं हसदेवअरण्यक्षेत्रे क्रियमाणानां वनच्छेदनकार्याणां विरोधः अपि क्रियिष्यते।

उल्लेखनीयम् अस्ति यत् काङ्ग्रेसविधायकदलस्य उपवेशने अविश्वासप्रस्तावस्य निर्णयः कृतः आसीत्। उपवेशनानन्तरं विपक्षनेता चरणदासमहन्तः जुलाईमासस्य चतुर्दशदिनाङ्के अविश्वासप्रस्तावस्य प्रस्तुतीकरणस्य सूचनाम् अददात्।

विधानसभायां भारतीयजनतापक्षस्य चतुःपञ्चाशत् विधायकाः सन्ति, काङ्ग्रेसदलस्य पञ्चत्रिंशत् सदस्याः सन्ति। एकः विधायकः गोंडवानागणतन्त्रपक्षस्य अस्ति। संख्याबलम् भारतीयजनतापक्षस्य पक्षे अस्ति। छत्तीसगढविधानसभायाम् अद्यावधि नववारम् अविश्वासप्रस्तावेषु चर्चा जाता। प्रत्येकवारं सर्वकारः स्वबहुमतं सिद्धयितुं सफलः अभवत्। प्रथमविधानसभायां तत्कालीनमुख्यमन्त्रिणः अजीतजोगी विरुद्धं २००२ तथा २००३ तमे वर्षे भारतीयजनतापक्षेण द्विवारम् अविश्वासप्रस्तावः प्रस्तुतः। ततः परं डाक्टर रमनसिंहसर्वकारस्य विरुद्धं २००७, २०११, २०१५, २०१७ तथा २०१८ तमे वर्षे कुलं पञ्चवारं काङ्ग्रेसदलेन अविश्वासप्रस्तावः प्रस्तुतः। तथा भूपेशबघेलसर्वकारस्य विरुद्धं २०२२ तथा २०२३ तमे वर्षे भारतीयजनतापक्षेण अविश्वासप्रस्तावः प्रस्तुतः। एतेषां सर्वेषां प्रस्तावानां विषये दीर्घकालपर्यन्तं चर्चा अभवत्, किन्तु कश्चिदपि प्रस्तावः पारितः नाभवत्।

Hindusthan Samachar / Dheeraj Maithani