Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, १४ जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य पूर्व-मुख्यमन्त्री स्वर्गीयः चन्द्रभानु-गुप्ता सदा सिद्धान्तानां मूल्याधारित-राजनीतेश्च पालनम् अकरोत्। वर्तमानकाले यदा बहुधा समायोजन-राजनीतिः दृश्यते, तदा सिद्धान्तनिष्ठस्य पुरुषस्य स्वमार्गे गन्तुं कदापि काचित् बाधा न भवति। चन्द्रभानु-गुप्तेन शिक्षायाः, संस्कृतेः, समाजसेवायाश्च क्षेत्रेषु यानि कार्याणि कृतानि, तानि सर्वदा प्रेरणां दास्यन्ति। एतानि वचनानि उत्तरप्रदेश-विधानसभाध्यक्षः सतीश-महानः मङ्गलवासरे चारबाग-स्थिते रवीन्द्रालय-प्रेक्षागृहे आयोजितं “चन्द्रभानु-गुप्त-राष्ट्र-गौरव-सम्मान-२०२६” समारोहम् सम्बोधयन् उक्तवान्।
विधानसभाध्यक्षः उक्तवान् यत् चन्द्रभानु-गुप्तस्य नाम्ना प्रदीयमानम् एतत् सम्मानम् अत्यन्तं गौरवपूर्णः अस्ति, यतः तेन स्वसमग्रं जीवनं समाजसेवायै मूल्याधारित-राजनीत्यै च समर्पितम्। अयं कार्यक्रमः मोतीलाल-मेमोरियल-सोसाइटी तथा भारत-सेवा-संस्थानेन पूर्व-मुख्यमन्त्रिणः, स्वतन्त्रता-सङ्ग्राम-सेनान्यः समाजसेविनश्च स्वर्गीय-चन्द्रभानु-गुप्तस्य पञ्चविंशत्यधिक-शततम-जन्मजयन्त्याः निमित्तम् आयोजितः।
महानः उक्तवान् यत् चन्द्रभानु-गुप्तेन स्थापिताः आदर्शाः अग्रिम-वंशानां कृते मार्गदर्शकाः सन्ति। तस्य जीवनात् प्रेरणां गृहीत्वा अस्माभिः सर्वैः समाजस्य राष्ट्रस्य च हिताय कार्यं कर्तुं संकल्पः करणीयः।
अस्मिन्नवसरे “चन्द्रभानु-गुप्त-राष्ट्र-गौरव-सम्मान-२०२६” अन्तर्गतं कृषेः पर्यावरणस्य च क्षेत्रे उल्लेखनीय-योगदानाय प्रख्यातः कृषि-वैज्ञानिकः डॉ. राम-कठिन-सिंहः, समाजसेवायाः दिव्याङ्गजन-अधिकाराणां च क्षेत्रे कार्यरतः डॉ. हेमन्त-भाई-गोयलः च सम्मानितौ। उभाभ्याम् प्रशस्ति-पत्रम्, अङ्गवस्त्रम्, एकैकं लक्ष-रूप्यकाणां सम्मान-राशिश्च प्रदत्ता।
कार्यक्रमे मोतीलाल-मेमोरियल-सोसाइटी-अध्यक्षः तथा सांसदः उज्ज्वल-रमण-सिंहः, महासचिवः राजेश-सिंहः, भारत-सेवा-संस्थानस्य अध्यक्षः पूर्व-राज्यसभा-सदस्यश्च डॉ.अशोक-बाजपेयी तथा अन्येऽपि बहवः गण्यमान्य-जनाः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan