अग्रिमवंशस्य भविष्यस्य संरक्षणं शासनस्य उत्तरदायित्वम् - मुख्यमन्त्री
गुवाहाटीनगरम्, १४ जुलाईमासः (हि.स.)। असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्तबिस्वसरमा उक्तवान् यत् राज्यस्य अग्रिमवंशस्य भविष्यस्य संरक्षणं शासनस्य उत्तरदायित्वम् अस्ति। एतस्यैव उद्देशस्य पूर्त्यर्थं सञ्चाल्यमानयोः ''निजुत् मोइना'' तथा ''निजुत् बाब
CM Dr Himanta Biswa Sarma Reviewing Nijut Moina and Nijut Babu Schemes.


गुवाहाटीनगरम्, १४ जुलाईमासः (हि.स.)। असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्तबिस्वसरमा उक्तवान् यत् राज्यस्य अग्रिमवंशस्य भविष्यस्य संरक्षणं शासनस्य उत्तरदायित्वम् अस्ति। एतस्यैव उद्देशस्य पूर्त्यर्थं सञ्चाल्यमानयोः 'निजुत् मोइना' तथा 'निजुत् बाबु' इति योजनयोः प्रभावी-क्रियान्वयनस्य विषये सः गतरात्रौ शिक्षाविभागस्य अधिकारिभिः सह समीक्षा-सभाम् आयोजितवान्।

मुख्यमन्त्री अद्य स्वस्य सामाजिकमाध्यमे प्रकाशिते सन्देशे उक्तवान् यत् शासनं सुनिश्चितं करिष्यति यत् उभयोः योजनयोः लाभः सर्वेभ्यः पात्रविद्यार्थिभ्यः समये एव प्राप्नुयात्। सः अधिकारिभ्यः योजनयोः प्रभावी-पारदर्शी-क्रियान्वयनार्थम् आवश्यकानि पदानि स्वीकर्तुं निर्देशान् प्रदत्तवान्।

Hindusthan Samachar / Divya Ranjan