Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 14 जुलाईमासः (हि.स.)।
दिल्लीविधानसभाध्यक्षः विजेन्द्रगुप्तः अवदत् यत् समितिप्रणाली विधायिकाकार्यप्रणाल्याः श्रेष्ठतमासु परम्परासु अन्यतमा अस्ति। धैर्यपूर्णविमर्शेन, सूक्ष्मपरीक्षणेन तथा प्रमाणाधारिताभिः अनुशंसाभिः समितयः न केवलं कार्यपालिकायाः उत्तरदायित्वं सुदृढं कुर्वन्ति, अपितु शासनस्य गुणवत्तामपि उन्नयन्ति। एतत् विजेन्द्रगुप्तः मङ्गलवासरे दिल्लीविधानसभायाः वित्तीयसमितीनां विभागसम्बद्धस्थायिसमितीनां च अध्यक्षेभ्यः आयोजितायाः कार्यशालायाः उद्घाटनसमये उक्तवान्।
नवनियुक्तान् समित्यध्यक्षान् अभिनन्दन् विजेन्द्रगुप्तः अवदत् यत् तेषां नियुक्तिः केवलं औपचारिकदायित्वं नास्ति, अपितु उत्तरदायित्वस्य, पारदर्शितायाः तथा सुशासनस्य सुनिश्चित्यै विधानमण्डलस्य अत्यन्तमहत्त्वपूर्णासु संस्थासु अन्यतमां संस्थां सुदृढीकर्तुं प्राप्तः अवसरः अस्ति। तेन उक्तं यत् यद्यपि सदसि भवन्त्यः चर्चाः संसदीयलोकतन्त्रस्य प्रत्यक्षतमाभिव्यक्तिः भवन्ति, तथापि विधानमण्डलस्य अधिकांशः विस्तृतकार्यभारः समितिप्रणाल्याः माध्यमेन एव सम्पद्यते।
अस्याः कार्यशालायाः आयोजनं वित्तीयसमितीनां विभागसम्बद्धस्थायिसमितीनां च अध्यक्षान् तासां संवैधानिकप्रक्रियात्मककार्यात्मकपक्षैः परिचययितुं कृतम्।
कार्यक्रमे दिल्लीविधानसभायाः उपाध्यक्षः मोहनसिंहबिष्टः, संसदीयकार्यविशेषज्ञः वी सतीशः, सेन्टर फॉर पॉलिसी रिसर्च एण्ड गवर्नन्स संस्थायाः निदेशकः डाक्टर रामानन्दः, विधानसभासचिवालयस्य वरिष्ठाधिकारीणः तथा अन्ये विशिष्टजनाः उपस्थिताः आसन्। तकनीकीसत्रेषु वी सतीशः समित्यध्यक्षानां भूमिका उत्तरदायित्वं च इति विषये, दिल्लीविधानसभासचिवः डाक्टर युमनाम अरुणकुमारः संस्थागतसहयोगस्य प्रभावी उपयोगः इति विषये तथा डाक्टर रामानन्दः उत्तरदायित्वस्य जनविश्वासस्य च सुदृढीकरणम् इति विषये स्वविचारान् प्रस्तुतवान्। अनन्तरं समित्यध्यक्षैः सह संवादात्मकचर्चा अपि आयोजिता।
विधानसभाध्यक्षः स्वसम्बोधने अवदत् यत् लोकतन्त्रस्य सफलता केवलं विधाननिर्माणेन अथवा सदसि चर्चया एव न निर्धार्यते, अपितु लोकतान्त्रिकसंस्थाः सामान्यजनानां जीवने कियत् सकारात्मकपरिवर्तनं जनयन्ति इति आधारेण निर्धार्यते। तेन उक्तं यत् विधानसभायां जनहितविषयेषु चर्चा, सर्वकारस्य नीतिसमीक्षा तथा समितिप्रणाल्याः माध्यमेन शासनकार्याणां गहनपरीक्षणं क्रियते। तेन उक्तं यत् स्थायिसमितयः अधुना विधायिकाव्यवस्थायाः सशक्तः स्तम्भः जाताः सन्ति। ताः विभागानां कार्याणि, सर्वकारीययोजनाः, विनियोजितव्ययः तथा नीतयः इत्येतानां गहनमध्ययनं कृत्वा तथ्यप्रमाणाधारिताः महत्त्वपूर्णाः अनुशंसाः प्रस्तुवन्ति।
समित्यध्यक्षानां भूमिका उत्तरदायित्वं च इति विषये स्वविचारान् प्रस्तुवन् संसदीयकार्यविशेषज्ञः वी सतीशः भारतस्य संसदीयलोकतान्त्रिकपरम्परायाः व्यापकविकासक्रमस्य सन्दर्भे स्थायिसमितीनां भूमिकाम् उल्लिखितवान्। तेन उक्तं यत् भारतः लोकतन्त्रस्य जननी इति कारणेन उत्तरदायिशासनस्य दीर्घकालीनां सभ्यतागतपरम्परां धारयति, या संविधानात् अपि प्राचीना अस्ति। पुनः पुनः भवन्तः व्यवधानाः तथा विधायिकामानदण्डेषु जाता अवनतिः संसदीयसंस्थानि दुर्बलानि कृतवन्ती तथा जनविश्वासम् अपि प्रभावितवती। लोकतान्त्रिकसंस्थानां गरिमायाः सुदृढतायाश्च संरक्षणं सर्वेषां राजनैतिकदलानां निर्वाचितप्रतिनिधीनां च संयुक्तं दायित्वम् अस्ति। विधानमण्डलानां सुदृढीकरणं कस्यचित् सर्वकारस्य अथवा राजनैतिकदलस्य कृते न, अपितु राष्ट्रहिताय आवश्यकम् इति तेन उक्तम्।
अस्मिन्नवसरे मोहनसिंहबिष्टः अवदत् यत् स्थायिसमितयः विधायिकापरीक्षणस्य कार्यपालिकायाः उत्तरदायित्वसुनिश्चितेः च प्रभाविकतमासु व्यवस्थासु अन्यतमाः सन्ति। तेन उक्तं यत् समितेः कार्यवाह्याः प्रभावशीलता सूचितनेतृत्वे, नियमितसहभागितायां तथा रचनात्मकविमर्शे निर्भरति।
कार्यशालायां लोकलेखासमितेः अध्यक्षः अजयकुमारमहावरः, सर्वकारीयोपक्रमसमितेः अध्यक्षः राजकुमारभाटिया, प्राक्कलनसमितेः अध्यक्षः गजेन्द्रसिंहयादवः, स्वास्थ्यसम्बद्धविभागीयस्थायिसमितेः अध्यक्षः सञ्जयगोयलः, विकाससम्बद्धविभागीयस्थायिसमितेः अध्यक्षः श्यामशर्मा, वित्तपरिवहनसम्बद्धविभागीयस्थायिसमितेः अध्यक्षः रविन्द्रसिंहनेगी, प्राक्कलनसम्बद्धविभागीयस्थायिसमितेः अध्यक्षः चन्दनकुमारचौधरी, लोकोपयोगितानागरिकसुविधासम्बद्धविभागीयस्थायिसमितेः अध्यक्षः सन्दीपसेहरावतः सहिताः अन्ये समित्यध्यक्षाः अपि सहभागिनः अभवन्।
---------------
Hindusthan Samachar / Dheeraj Maithani