गृहिणीनां गार्हस्थ्यकार्यस्य आर्थिक-मूल्याङ्कनं क्रान्तिकारी पदक्षेपः - न्यायमूर्तिः संजय-करोलः
नवदिल्ली, १४ जुलाईमासः (हि.स.)। उच्चतम-न्यायालयस्य न्यायाधीशः न्यायमूर्तिः संजय-करोलः उक्तवान् यत् गृहव्यवस्थापनं कुर्वतीनां महिलानां कार्यस्य आर्थिक-मूल्याङ्कनं लैङ्गिक-समतायाः दिशि क्रान्तिकारी पदक्षेपः अस्ति। न्यायमूर्तिः करोलः सोमवासरस्य रात्र
उच्चतम न्यायालय के न्यायाधीश न्यायमूर्ति संजय करोल के साथ अन्य लोग मौजूद।


नवदिल्ली, १४ जुलाईमासः (हि.स.)। उच्चतम-न्यायालयस्य न्यायाधीशः न्यायमूर्तिः संजय-करोलः उक्तवान् यत् गृहव्यवस्थापनं कुर्वतीनां महिलानां कार्यस्य आर्थिक-मूल्याङ्कनं लैङ्गिक-समतायाः दिशि क्रान्तिकारी पदक्षेपः अस्ति।

न्यायमूर्तिः करोलः सोमवासरस्य रात्रौ इण्डिया-इण्टरनेशनल-सेण्टर इत्यस्य मध्ये प्रबुद्ध-वर्गस्य संस्था ‘जिज्ञासा’ इत्यस्य आयोजनस्य ‘अस्माकं संविधानम् एवं गृहिणीनां कार्यस्य आर्थिक-मूल्याङ्कनम्’ इति विषयक-परिचर्चायां एतद् उक्तवान्।

न्यायमूर्तिः करोलः ऐतिहासिक-सन्दर्भान् तथा प्रामाणिक-तथ्यानि प्रस्तूय बलं दत्तवान् यत् एतत् केवलं प्रारम्भः अस्ति, भविष्ये तु अस्य व्यापकाः सकारात्मक-परिणामाः दृश्यन्ते। सः एतत् भारतीय-समाजे महिला: प्रति सम्मानस्य समतायाश्च भावं सुदृढीकरोति इति निर्णयम् अवर्णयत्।

कार्यक्रमस्य अध्यक्षतां कुर्वती भारतीय-सेनायाः वित्तीय-परामर्शदात्री डॉ. शिवाली-चौहान उक्तवती यत् भारतीय-संस्कृतौ शास्त्रेषु च महिलाभ्यः सर्वदा सर्वोच्चं सम्मानं प्रदत्तम्, यत्र स्वयं धनस्य देवी लक्ष्मीः नारीरूपेण पूज्यते। सा अवदत् यत् वर्तमाने युगे ‘अर्थः’ एव समाजे कस्यापि व्यक्तेः स्थानं योगदानं च निर्धारयति। अतः गृहिणीनां कठिन-श्रमस्य आर्थिक-मूल्याङ्कनम् अत्यावश्यकम् अस्ति। अस्मिन् दिशि अद्यापि बहु कार्यं करणीयम् अस्ति।

कार्यक्रमे देशस्य अनेकाः विख्याताः विधि-विशेषज्ञाः, शिक्षाविदः तथा प्रबुद्धजनाः सहभागिनः अभवन्। ते गृहिणीनाम् अदृश्य-श्रमस्य आर्थिक-परिचयं प्रदातुं विषये गम्भीरं विमर्शम् अकुर्वन्। परिचर्चायां दिल्ली-विश्वविद्यालयस्य अनेके प्राध्यापकाः तथा वरिष्ठ-विधि-विशेषज्ञाः अपि सहभागीन: अभवन्।

विशेषज्ञैः अस्य संवेदनशील-विषयस्य वैधानिक-सामाजिक-व्यावहारिक-पक्षेषु विस्तरेण चर्चा कृता, येन विमर्शः नूतनां दिशां प्राप्तवान्। ‘जिज्ञासा’ संस्थायाः अध्यक्षः राजकुमार-भाटिया विषयस्य पृष्ठभूमिं संस्थायाः आगामि-कार्यक्रमाणां रूपरेखां च प्रस्तुतवान्।

Hindusthan Samachar / Divya Ranjan