देहरादूने अनुसूचित जातेः 465 युवभ्यो मिलिष्यति स्वजीविकायाः अवसरः
देहरादूनम्, 14 जुलाईमासः (हि.स.)। देहरादूनजनपदे प्रधानमन्त्री-अनुसूचितजात्यभ्युदययोजनायाः अन्तर्गतं वित्तीयवर्षस्य २०२६–२७ कृते १२४.९४ लक्षरूप्यकपरिमितायाः जनपदकार्ययोजनायाः अनुमोदनं जिलाधिकारी आशीषचौहानेन कृतम्। एषा महत्त्वाकाङ्क्षिणी योजना अन्ति
जिला समाज कल्याण अधिकारी दीपांकर घिल्डियाल


देहरादूनम्, 14 जुलाईमासः (हि.स.)।

देहरादूनजनपदे प्रधानमन्त्री-अनुसूचितजात्यभ्युदययोजनायाः अन्तर्गतं वित्तीयवर्षस्य २०२६–२७ कृते १२४.९४ लक्षरूप्यकपरिमितायाः जनपदकार्ययोजनायाः अनुमोदनं जिलाधिकारी आशीषचौहानेन कृतम्। एषा महत्त्वाकाङ्क्षिणी योजना अन्तिमस्वीकृत्यर्थं भारतसर्वकाराय प्रेषिता अस्ति। अस्याः योजनायाः क्रियान्वयनेन जनपदस्य अनुसूचितजातिवर्गीयाः ४६५ युवानः स्वरोजगारस्य कौशलविकासस्य च लाभं प्राप्स्यन्ति।

‘ग्राण्ट्-इन्-एड्’ इत्यस्य घटकस्य अन्तर्गतं निर्मितायाः कार्ययोजनायाः प्रमुखोद्देश्यः जनपदस्य बेरोजगारयुवानः आत्मनिर्भरान् कर्तुम् अस्ति। अस्याः योजनायाः अन्तर्गतं अनुसूचितजातिवर्गस्य १७५ बेरोजगारयुवकयुवतीभ्यः स्वव्यवसायस्य आरम्भाय अथवा स्वरोजगारग्रहणाय ८७.५५ लक्षरूप्यकाणां अनुदानसहायता प्रदास्यते।

स्वरोजगारस्य प्रोत्साहनेन सह २९० शिक्षितबेरोजगारयुवभ्यः अद्यतनबाजारस्य आवश्यकतानुरूपं रोजगारोन्मुखं कौशलविकासप्रशिक्षणं प्रदास्यते। एतत् प्रशिक्षणं प्रतिष्ठिताभिः अधिकृताभिः स्वैच्छिकसंस्थाभिः प्रदास्यते, येन युवभ्यः सुलभतया रोजगारप्राप्तिः सम्भवेत्।

अस्मिन् विषये जिलाधिकारी आशीषचौहानः उक्तवान् यत् अस्याः योजनायाः प्रमुखलक्ष्यम् अनुसूचितजातिवर्गीययुवानाम् आर्थिकसशक्तीकरणं कृत्वा तान् आत्मनिर्भरतायाः मार्गे प्रेरयितुम् अस्ति। तेन निर्देशाः प्रदत्ताः यत् शासनस्य अन्तिमस्वीकृतिम् अनन्तरं लाभार्थिनां चयनं पूर्णपारदर्शितया निर्धारितमानदण्डानुसारं च क्रियताम्, येन योजनायाः लाभः समये एव वास्तविकलाभार्थिभ्यः प्राप्नुयात्।

जिलासमाजकल्याणाधिकारी दीपाङ्करघिल्डियालः अवदत् यत् विभागः एतां कार्ययोजनां केन्द्रसर्वकारस्य अन्तिमस्वीकृत्यर्थं प्रेषयति। तेन विश्वासः व्यक्तः यत् स्वीकृतिः प्राप्तमात्रे पात्रयुवानां चयनम्, तेषां प्रशिक्षणम्, स्वजीविकार्थमनुदानवितरणं च शीघ्रमेव आरभ्यते। विभागस्य प्रयत्नः अस्ति यत् अधिकाधिकाः युवानः सम्मानजनकजीविकया संयोज्येरन्।

----------------

Hindusthan Samachar / Dheeraj Maithani