इंडोनेशियाईसंसदः अध्यक्षाय ओडिशायाः बंधा सिल्क इत्येतत् दत्वा राज्यपालेन प्रकटितं गर्वम्
भुवनेश्वरम्, 14 जुलाईमासः (हि.स.)। ओडिशाराज्यस्य राज्यपालः डॉ. हरिबाबूकम्भमपतिः उक्तवान् यत् प्रधानमन्त्रिणा नरेन्द्रमोदिना इण्डोनेशियादेशस्य संसदः अध्यक्षा पुआनमहाराणी प्रति आधिकारिकप्रवासकाले ओडिशायाः प्रसिद्धम् इकट् (बन्धा) रेशमवस्त्रम् उपहाररूप
राज्यपाल डा हरिबाबू  कंभमपटी   फाइल फोटो


भुवनेश्वरम्, 14 जुलाईमासः (हि.स.)। ओडिशाराज्यस्य राज्यपालः डॉ. हरिबाबूकम्भमपतिः उक्तवान् यत् प्रधानमन्त्रिणा नरेन्द्रमोदिना इण्डोनेशियादेशस्य संसदः अध्यक्षा पुआनमहाराणी प्रति आधिकारिकप्रवासकाले ओडिशायाः प्रसिद्धम् इकट् (बन्धा) रेशमवस्त्रम् उपहाररूपेण प्रदत्तम् इति राज्यस्य गौरवस्य विषयः अस्ति।

राज्यपालेन सामाजिकमाध्यमे ‘एक्स’ इत्यत्र प्रकाशितसन्देशे उक्तं यत् प्रधानमन्त्रिणः एषः प्रयासः ओडिशायाः समृद्धां हस्तकरघापरम्परां तथा तन्तुवायिनां उत्कृष्टां शिल्पकलां वैश्विकमञ्चे सम्मानितां करोति।

तेन अपि उक्तं यत् एषा भावपूर्णा पहल प्राचीनकलिङ्गस्य दक्षिणपूर्वएशियादेशैः सह ऐतिहासिकान् सांस्कृतिकसम्बन्धान् च सुदृढतया प्रकाशयति।

राज्यपालेन प्रसन्नता व्यक्तीकृता यत् एतादृशैः कूटनीतिकैः सांस्कृतिकप्रयत्नैः च ओडिशायाः समृद्धा सांस्कृतिकविरासत् अन्ताराष्ट्रियस्तरे नूतनां परिचितिं प्रतिष्ठां च प्राप्नोति।

---------------

Hindusthan Samachar / Dheeraj Maithani