Enter your Email Address to subscribe to our newsletters

हमीरपुरम्, 14 जुलाईमासः (हि.स.)।
मुख्यमन्त्री ठाकुरसुखविन्द्रसिंहसुक्खू बुधवासरे हमीरपुरजनपदस्य प्रवासं करिष्यति। निर्धारितकार्यक्रमानुसारं सः प्रातः प्रायः एकादशवादने हमीरपुरं प्राप्स्यति। ततः किञ्चित्कालं सर्किटहाउसे विश्रामं कृत्वा प्रायः एकादशवादनस्य पञ्चचत्वारिंशन्मिनिटेषु बसस्थानकस्य पुरतः रानीझाँसी-उद्याने समीपे नगरनिगमस्य त्रयोदशदुकानानाम् उद्घाटनं करिष्यति।
तदनन्तरं सः टाउनहॉलपरिसरे नगरनिगमकार्यालयभवनस्य शिलान्यासं करिष्यति। शिलान्यासानन्तरं टाउनहॉलमध्ये आयोजितां जनसभां सम्बोधयिष्यति। अपराह्णे मुख्यमन्त्री पुनः शिमलानगरं प्रत्यागमिष्यति।
उपायुक्ता गन्धर्वाराठौडे नगरनिगमस्य अधिकारिभ्यः उद्घाटन-शिलान्यासकार्यक्रमयोः सर्वान् आवश्यकप्रबन्धान् सुनिश्चितीकर्तुं निर्देशान् प्रदत्तवती। तया सर्वेषां विभागानां वरिष्ठाधिकारिणः अपि मुख्यमन्त्रिणः प्रवासकाले स्वयम् उपस्थिताः भवितुम् आदेशिताः।
---------------
Hindusthan Samachar / Dheeraj Maithani