Enter your Email Address to subscribe to our newsletters

चण्डीगढनगरम्, १४ जुलाईमासः (हि.स.)। हरियाणा-राज्यस्य मुख्यमन्त्री नायबसिंह-सैनी नागरिक-सचिवालये हरियाणा-विजन-२०४७ विषयमधिकृत्य उच्चतर-शिक्षा-विभागस्य समीक्षासभायाम् अध्यक्षताम् अकरोत्। सभायां सः हरियाणाराज्यस्य नवोन्मेष-आधारित-परिवर्तनस्य त्वरितीकरणार्थं २० कोटि-रूप्यकाणां 'हरियाणा-राज्य-अनुसन्धान-कोषस्य' अनुमोदनम् अकरोत्। अस्य अन्तर्गतं राज्यस्य २७ उच्च-शिक्षण-संस्थानानां ९० अनुसन्धान-परियोजनाभ्यः वित्तीय-साहाय्यं प्रदत्तम् अस्ति।
मुख्यमन्त्री उक्तवान् यत् राज्यसर्वकारेण स्वप्रतिज्ञा पालिता। तदनुसारं राज्ये प्रत्येकस्य २० किलोमीटर-परिधौ छात्राणां कृते महाविद्यालयाः स्थापिताः, येन तासां शिक्षाग्रहणे सुविधा जाता।
सैनी उक्तवान् यत् 'हरियाणा-राज्य-अनुसन्धान-कोषः' विश्वविद्यालयान् महाविद्यालयांश्च केवलं पुस्तकीय-ज्ञानपर्यन्तं सीमितान् न स्थापयित्वा, तान् राज्यस्य वास्तविक-समस्यानां समाधान-केन्द्रेषु परिवर्तयिष्यति। एताः सर्वाः ९० अनुसन्धान-परियोजनाः कृषि, भूजल-संरक्षणम्, जल-प्रबन्धनम्, जलवायु-परिवर्तनम्, स्वास्थ्य-सेवा, कृत्रिम-बुद्धिमत्ता, ग्रामीण-विकासः, औद्योगिक-नवोन्मेषः तथा समावेशी-शिक्षा इत्यादिषु हरियाणा-राज्यस्य विशिष्ट-विषयेषु केन्द्रिताः सन्ति।
मुख्यमन्त्री उक्तवान् यत् अनुसन्धानं केवलं प्रकाशन-प्रयोगशालापर्यन्तं सीमितं न भवेत्। तस्य प्रत्यक्षः लाभः कृषकेभ्यः, उद्योगेभ्यः, स्थानीय-समुदायेभ्यश्च प्राप्तव्यः। यदा शैक्षणिक-ज्ञानं व्यावहारिक-प्रौद्योगिकीषु, पेटेण्टेषु, नव-उद्यमेषु तथा उत्कृष्ट-लोकसेवासु परिणमिष्यति, तदैव हरियाणा-राज्यस्य जनानां जीवनस्तरे सुधारः भविष्यति।
उच्चतर-शिक्षायां राष्ट्रीय-शिक्षा-नीतेः प्रभावी-क्रियान्वयनार्थं मुख्यमन्त्री 'नीव'-पोर्टलस्य अपि समीक्षाम् अकरोत्। एषः पोर्टलः राज्यस्य सर्वेषां शिक्षण-संस्थानानाम् अनुसन्धानम्, नियोजनम्, नव-उद्यमाः तथा छात्राणां परिणामानां सजीव-अनुवर्तनं करिष्यति। अस्य दत्तांश-आधारित-पटलस्य निर्माणे विकासे च मुख्यमन्त्रिणः कार्यवाहक-निदेशकः स्वर्ण-जयन्ती-हरियाणा-राजकोषीय-प्रबन्धन-संस्थानस्य महानिदेशकः डॉ. राज-नेहरू महत्त्वपूर्णां भूमिकाम् अवहत्।
मुख्यमन्त्री शिक्षायाः रोजगारेण उद्यमितया च सम्बन्धं दृढीकर्तुं सर्वकारेण आरब्धानां अन्येषामपि महत्त्वपूर्ण-योजनानां विषये अवदत्। तदनुसारं राज्यस्य प्रत्येकस्मिन् जनपदे आदर्श-संस्कृति-महाविद्यालयाः स्थापयिष्यन्ते। आधुनिक-प्रौद्योगिकीभ्यः स्वायत्त-एआई-डिजिटल-महाविद्यालयः अपि स्थापयिष्यते। अनुसन्धान-प्रोत्साहनार्थं ५० सहस्र-रूप्यक-पर्यन्तं पेटेण्ट-पञ्जीकरण-शुल्कस्य प्रतिपूर्तिः साहाय्यरूपेण प्रदास्यते।
Hindusthan Samachar / Divya Ranjan