Enter your Email Address to subscribe to our newsletters

जयपुरम्, 14 जुलाईमासः (हि.स.)।
जयपुरस्य देहलीमार्गस्थिते फेयरमॉन्टनामके आतिथ्यगृहे एकोनविंशतितमे विंशतितमे च जुलैदिने आयोज्यमानस्य इन्टरनेशनल वेडिङ्ग एण्ड टूरिज्म कॉन्क्लेव् आईडब्ल्यूटीसी तृतीयसत्रस्य शुभारम्भं राजस्थानस्य उपमुख्यमन्त्री दीयाकुमारी करिष्यति।
कॉन्क्लेव इत्यस्य निदेशकः अरशदहुसैनः अवदत् यत् अस्मिन् प्रतिष्ठिते आयोजने आन्ध्रप्रदेशपर्यटनविभागः आधिकारिकसहभागिरूपेण सम्मिलितः अस्ति। कार्यक्रमे आन्ध्रप्रदेशस्य पर्यटनमन्त्री कुण्डलदुर्गेशः, इवेण्टउद्योगस्य प्रमुखः पार्थिपत्यागराजनः, ऋतुराजखन्ना सहिताः अनेकाः गणमान्याः अतिथयः सहभागिनः भविष्यन्ति।
द्विदिवसीये अस्मिन् कॉन्क्लेवे देशविदेशेभ्यः विवाहपर्यटनातिथ्यउद्योगानां षट्शताधिकाः प्रतिनिधयः सहभागं करिष्यन्ति। आयोजनस्य उद्देश्यं विभिन्नराज्यानां पर्यटनसम्भावनानां, सांस्कृतिकविरासतायाः तथा विवाहगन्तव्यस्थानानां राष्ट्रियान्ताराष्ट्रियस्तरे नूतनपरिचयस्य स्थापना अस्ति।
आन्ध्रप्रदेशपर्यटनविभागस्य सहभागितया राज्यस्य समृद्धसांस्कृतिकविरासतायाः, आध्यात्मिकस्थलानां, समुद्रतटानां, पर्वतीयपर्यटनस्थलानां तथा विवाहगन्तव्यस्थानानां विशेषप्रदर्शनं भविष्यति।
आयोजकैः उक्तं यत् आईडब्ल्यूटीसी केवलं पारस्परिकसम्पर्कस्य मञ्चः नास्ति, अपितु पर्यटनविवाहउद्योगयोः नूतनावसरनिर्माणाय महत्त्वपूर्णम् आयोजनम् अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani