Enter your Email Address to subscribe to our newsletters

रांची, 14 जुलाईमासः। श्रीकृष्णप्रणामीसेवाधामन्यासेन सञ्चालिते श्रीराधाकृष्णप्रणामीमन्दिरे मङ्गलवासरे सन्तशिरोमणेः डाक्टर स्वामी सदानन्दमहाराजस्य सान्निध्ये द्विशतचतुःसप्ततितमस्य श्रीकृष्णप्रणामीअन्नपूर्णासेवामहाप्रसादस्य आयोजनं श्रद्धया भक्तिभावेन च सम्पन्नम्। कार्यक्रमे बहुसंख्यकाः श्रद्धालवः भगवानः श्रीराधाकृष्णस्य दर्शनपूजनं कृत्वा महाप्रसादं प्रागृह्णन्।
अस्मिन्नवसरे श्रीराधाराण्याः विशेषरूपेण मनोहराभरणैः नानावर्णपुष्पैः च भव्यः शृङ्गारः कृतः। मध्याह्ने द्वादशवादने मन्दिरस्य पूजारी अरविन्दकुमारपाण्डेयः वैदिकमन्त्रोच्चारणेन सह विधिपूर्वकं पूजार्चनां सम्पन्नां कृत्वा भगवते महाप्रसादस्य नैवेद्यं समर्पितवान्।
पूजायाः अनन्तरं श्रद्धालुभ्यः मसालायुक्ता शाकखिचडी, लीचीरसः तथा आलूचिप्स इति प्रसादः वितरितः। मन्दिरपरिसरे प्रायः द्विसहस्राधिकैः श्रद्धालुभिः महाप्रसादः ग्रहणः कृतः।
कार्यक्रमस्य अवसरे आयोजितायां भजनसन्ध्यायां न्यासस्य भजनगायकैः श्रीकृष्णभक्तिरसपूर्णानां भजनानां मनोहरप्रस्तुतिः कृता। भजनेषु श्रद्धालवः भावविह्वलाः सन्तः आनन्देन नृत्यन्तः अभवन् तथा समग्रः मन्दिरपरिसरः राधेकृष्ण तथा श्याम इति जयघोषैः भक्तिमयेन वातावरणेन परिपूर्णः अभवत्। कार्यक्रमस्य समापनं सामूहिकमहाआरत्याः सह अभवत्।
न्यासस्य प्रवक्ता माध्यमप्रभारी च संजयसर्राफः अवदत् यत् दिवसभरे पञ्चसहस्राधिकाः श्रद्धालवः मन्दिरम् आगत्य भगवानः श्रीराधाकृष्णस्य दर्शनं कृतवन्तः। तेन उक्तं यत् मन्दिरे प्रतिदिनं मध्याह्ने द्वादशवादनात् द्विवादनपर्यन्तं सर्वेभ्यः श्रद्धालुभ्यः निःशुल्कं शाकखिचडीमहाप्रसादस्य वितरणं क्रियते।
अस्मिन्नवसरे श्रीकृष्णप्रणामीसेवाधामन्यासस्य पदाधिकारिणः, सदस्याः तथा बहुसंख्यकाः श्रद्धालवः उपस्थिताः आसन्।-------------
Hindusthan Samachar / Dheeraj Maithani