Enter your Email Address to subscribe to our newsletters

रामगढ़म्, 14 जुलाईमासः (हि.स.)।रेलपरियोजनायाः अन्तर्गतं आयोजितायां मासिकपरीक्षायाम् उत्कृष्टप्रदर्शनकर्तृभ्यः उपायुक्तः ऋतुराजः सम्मानं कृतवान्। मङ्गलवासरे आयोजिते सम्मानसमारोहे उपायुक्तः ऋतुराजः अवदत् यत् राजकीयविद्यालयेषु विद्यार्थिनां शैक्षणिकस्तरस्य सुदृढीकरणाय गुणवत्तायुक्तशिक्षायाः प्रोत्साहनाय च जुलैमासे मासिकपरीक्षा आयोजिता आसीत्।
उत्कृष्टप्रदर्शनकर्तृभ्यः छात्रेभ्यः छात्राभ्यश्च टाउनहॉलमध्ये आयोजितस्य सम्मानसमारोहस्य अवसरे प्रशस्तिपत्राणि प्रदत्तानि।
उपायुक्तः सर्वान् विद्यार्थिनः तेषां उपलब्ध्याः कृते अभिनन्दन् अवदत् यत् नियमिताध्ययनम्, अनुशासनम् तथा निरन्तराभ्यासः एव सफलतायाः कुञ्जिका अस्ति। मासिकपरीक्षाणां प्रयोजनं केवलं विद्यार्थिनां मूल्याङ्कनं न, अपितु तेषां अधिगमक्षमतायाः निरन्तरपरिष्कारः तथा स्पर्धात्मकपरीक्षाणां कृते तेषां सज्जीकरणम् अपि अस्ति। सः सर्वान् विद्यार्थिनः पूर्ववत् परिश्रमेण समर्पणेन च अध्ययनं निरन्तरं कर्तुम् आहूतवान्।
उपायुक्तः अवदत् यत् जिलाप्रशासनं शिक्षायाः गुणवत्तासुधाराय निरन्तरं प्रयतते। रेलपरियोजनायाः माध्यमेन राजकीयविद्यालयेषु सञ्चालितानां शैक्षणिकक्रियाकलापानां सकारात्मकाः परिणामाः दृश्यन्ते। सः शिक्षकेभ्यः अपि विद्यार्थिनां नियमितमार्गदर्शनं कृत्वा तान् नूतनशिखरप्राप्तये प्रेरयितुम् आग्रहम् अकरोत्।
कार्यक्रमस्य अवसरे जुलैमासस्य मासिकपरीक्षायाम् उत्कृष्टप्रदर्शनकर्तारः दशमकक्षायाः लकी हजाम, वसुन्धरा कुमारी, रीमा पोद्दार, अनमोलचन्द्र पोद्दार, विद्या कुमारी तथा द्वादशकक्षायाः शीतल कुमारी, सागरकुमार रजक, मनु कुमारी, दीपिका कुमारी, लखराजकुमारः, ज्ञानसुधा, मानसी कुमारी इत्यादयः अन्ये च प्रशस्तिपत्रैः सम्मानिताः।
---------------
Hindusthan Samachar / Dheeraj Maithani