Enter your Email Address to subscribe to our newsletters



लखनऊनगरम्, १४ जुलाईमासः (हि.स.)। संविधानस्य (१२९तम-संशोधन)-विधेयकस्य, २०२४ तथा संघ-राज्यक्षेत्र-विधि-(संशोधन)-विधेयकस्य, २०२४ समीक्षां कुर्वती संयुक्त-संसदीय-समितिः (जेपीसी) ‘एकं राष्ट्रम्, एकं निर्वाचनम्’ इति प्रस्तावित-विधेयकस्य विषये उत्तरप्रदेशे विविध-हितधारकैः सह संवाद-प्रक्रियाम् आरब्धवती। पी.पी.-चौधरी-महोदयस्य अध्यक्षतायां कार्यरतायाः अस्याः समितेः सदस्याः सांसदैः, विधायकैः, जनप्रतिनिधिभिः, प्रशासनिक-अधिकारिभिः तथा समाजस्य विविध-वर्गैः सह निरन्तरं विचारविनिमयं कुर्वन्ति। मङ्गलवासरेऽपि एषः क्रमः अविरत: अभवत्।
लखनऊ-नगरस्य गोमतीनगर-स्थिते ताज-होटल-इत्यत्र आयोजिते कार्यक्रमे समित्या उत्तरप्रदेश-विधानसभाध्यक्षः सतीश-महानः मिलित्वा एकस्मिन् काले निर्वाचन-सम्पादनस्य विषये तस्य विचाराः गृहीताः। एतदतिरिक्तं अन्यैः अपि जनप्रतिनिधिभिः संस्थानां प्रतिनिधिभिश्च सह विचार-विनिमयः कृतः।
विधानसभाध्यक्षः सतीश-महाना समितेः पुरतः स्वविचारान् प्रस्तूय उक्तवान् यत् समग्रे देशे ‘एकं राष्ट्रम्, एकं निर्वाचनम्’ इति भावना दीर्घकालात् विद्यमाना अस्ति। एषा व्यवस्था केवलं राजनेतृभ्यः न, अपितु सामान्य-जनतायै अपि हितकरा भविष्यति। पुनः पुनः निर्वाचनानां आयोजनात् जनतायाः जनप्रतिनिधीनां च कार्याणि प्रभावितानि भवन्ति। निर्वाचन-प्रक्रियायां सर्वेषां भूमिका महत्त्वपूर्णा अस्ति, किन्तु यदि निर्वाचनानि पृथक् पृथक् भवन्ति तर्हि तेषां प्रभावः शासन-व्यवस्थायामपि दृश्यते।
स्वानुभवं वर्णयन् सः उक्तवान् यत् स्वस्य विधानसभाक्षेत्रेऽपि तस्मै पुनः पुनः निर्वाचन-प्रक्रियायां सक्रियः भवितव्यं भवति। प्रत्येकं निर्वाचनस्य समये जनप्रतिनिधीनां उत्तरदायित्वं विकास-कार्याणि च प्रभावितानि भवन्ति। जनप्रतिनिधीनां बहुः कालः निर्वाचन-कार्येषु व्यतीतः भवति, यदा जनतायाः अपेक्षा भवति यत् क्षेत्रस्य विकासाय समस्यासमाधानाय च निरन्तरं कार्यं क्रियेत। यदि निर्वाचनानि एकस्मिन् काले भविष्यन्ति तर्हि जनप्रतिनिधयः जनसेवायै विकासकार्येभ्यश्च अधिकं समयं दातुं शक्नुवन्ति।
महानः उक्तवान् यत् पुनः पुनः निर्वाचनानां कारणात् प्रशासनिक-यन्त्रणा, सुरक्षा-बलानि, शासकीय-संसाधनानि च निर्वाचन-कार्येषु एव व्यस्तानि भवन्ति। एकस्मिन् काले निर्वाचन-सम्पादनेन एतेषां संसाधनानां समुचितः उपयोगः सम्भविष्यति तथा विकास-योजनानां गतिरपि अविच्छिन्ना भविष्यति। लोकतन्त्रे जनसहभागिता सर्वोपरि इति प्रतिपादयन् सः उक्तवान् यत् निर्वाचन-व्यवस्थायाः सुधारसमये सर्वेषां राजनीतिक-दलानां, संवैधानिक-संस्थानानां, विशेषज्ञाणां, सामान्य-जनतायाश्च विचारा: अवश्यं ग्राह्याः।
उल्लेखनीयं यत् संयुक्त-संसदीय-समितिः लखनऊ-प्रवासकाले उत्तरप्रदेश-विधानमण्डलस्य सदस्यैः, राजनीतिक-दल-प्रतिनिधिभिः, राज्य-सर्वकारस्य वरिष्ठ-अधिकारिभिः, मुख्य-निर्वाचन-अधिकाऱिणा, विधि-विशेषज्ञैः, शिक्षाविद्भिः, उद्योग-व्यापार-सङ्घटन-प्रतिनिधिभिः, प्रबुद्ध-जनैः, माध्यम-प्रतिनिधिभिश्च सह संवादं कुर्वती अस्ति।
भारतीय-जनता-पार्टी-सांसदस्य पी.पी.-चौधरी-महोदयस्य अध्यक्षतायां कार्यरतायाः संयुक्त-संसदीय-समितेः लखनऊ-नगरे त्रिदिवसीय-अध्ययन-प्रवासः प्रचलति। समितेः उद्देश्यं लोकसभायाः राज्य-विधानसभानां च निर्वाचनानि एकस्मिन् काले सम्पादयितुं सम्बन्धिषु संवैधानिक-प्रशासनिक-व्यावहारिक-पक्षेषु विविध-वर्गेभ्यः विचारान् प्राप्तुम् अस्ति। अस्याः पूर्वं समितिः महाराष्ट्रे, उत्तराखण्डे, हरियाणायाम्, हिमाचलप्रदेशे, कर्नाटके, गुजराते, गोवायां च हितधारकैः सह विचारविनिमयं कृतवती। समितौ लोकसभायाः राज्यसभायाश्च मिलित्वा नवत्रिंशत् सदस्याः सन्ति। समित्या प्राप्ताः विचारा: अन्तिम-प्रतिवेदने समावेशिताः भविष्यन्ति।
पूर्वं लोकसभा-विधानसभा-निर्वाचनानि एकस्मिन् काले एव अभवन् : केशव-प्रसाद-मौर्यः
‘एकं राष्ट्रम्, एकं निर्वाचनम्’ इति विषये उपमुख्यमन्त्री केशव-प्रसाद-मौर्यः लखनऊ-नगरे उक्तवान् यत् भारतस्य स्वातन्त्र्यप्राप्तेः अनन्तरं लोकसभा-विधानसभा-निर्वाचनानि एकस्मिन् काले एव भवन्ति स्म। किन्तु काङ्ग्रेस-दलस्य संविधान-विरोधि-नीतिभिः अनेके सर्वकाराः समयात् पूर्वमेव पदच्युताः अभवन्, ततः निर्वाचनानि पृथक्-पृथक् समयेषु आरब्धानि। फलतः विकासाय, निर्धनेभ्यः, कृषकेभ्यश्च व्ययितव्यः सार्वजनिक-कोषः निर्वाचनेषु एव अत्यधिकं व्ययितः, येन राष्ट्रस्य प्रगतिः प्रभाविताभवत्।
सः उक्तवान् यत् प्रधानमन्त्रीण: नरेन्द्र-मोदी-महोदयस्य नेतृत्वे निर्धारितं दूरदर्शी-दृष्टिकोणं वयं स्वागतं कुर्मः, समर्थनं च कुर्मः। ‘एकं राष्ट्रम्, एकं निर्वाचनम्’ अवश्यमेव भवितव्यम्। काङ्ग्रेस-दलः समाजवादी-पक्ष: च परस्परं संघर्षं कुर्वन्तु वा मा कुर्वन्तु, तेन भारतीय-जनता-पक्षस्य कश्चन प्रभावः न भविष्यति। २०२७ तमे वर्षे उत्तरप्रदेशे तृतीयवारं तथा २०२९ तमे वर्षे देशे चतुर्थवारं भारतीय-जनता-पक्षस्य सर्वकार-निर्माणं निश्चितम् इति तेन उक्तम्। अखिलेश-यादवस्य परिवारः श्रीराम-जन्मभूमि-मन्दिर-निर्माणस्य विरोधं कृतवान् इति आरोपं कृत्वा सः अवदत् यत् श्रीराम-जन्मभूमि-विषये सः अनावश्यक-वक्तव्यप्रदानं परित्यज्य स्वपक्ष-सुदृढीकरणे ध्यानं ददातु।
Hindusthan Samachar / अंशु गुप्ता