बेङ्गलूरुनगरे देशस्य प्रथमः शासकीय-नेतृत्वयुक्तः कृत्रिमबुद्धिमत्ता-विश्वविद्यालयः स्थापितः भविष्यति - मुख्यमन्त्री
बेङ्गलूरुनगरम्, १४ जुलाईमासः (हि.स.)। कर्नाटकस्य मुख्यमन्त्री डी.के. शिवकुमारः मङ्गलवासरे बेङ्गलूरु-अन्ताराष्ट्रिय-प्रदर्शन-केन्द्रे आयोजितस्य गूगल आई/ओ कनेक्ट इण्डिया–२०२६ कार्यक्रमस्य उद्घाटनं कृत्वा उक्तवान् यत् राज्यसर्वकारः कर्नाटकं भारतस्य कृ
मुख्यमंत्री डी.के. शिवकुमार ने बेंगलुरु में Google I/O Connect India इवेंट में बात की।


बेङ्गलूरुनगरम्, १४ जुलाईमासः (हि.स.)। कर्नाटकस्य मुख्यमन्त्री डी.के. शिवकुमारः मङ्गलवासरे बेङ्गलूरु-अन्ताराष्ट्रिय-प्रदर्शन-केन्द्रे आयोजितस्य गूगल आई/ओ कनेक्ट इण्डिया–२०२६ कार्यक्रमस्य उद्घाटनं कृत्वा उक्तवान् यत् राज्यसर्वकारः कर्नाटकं भारतस्य कृत्रिमबुद्धिमत्तायाः राजधानीं कर्तुं दृढसंकल्पितः अस्ति। सः अवदत् यत् कृत्रिमबुद्धिमत्ता-आधारित-शिक्षा, अनुसन्धानम्, नवाचारः तथा डिजिटल-अवसंरचनायाः संवर्धनार्थं सर्वकारेण अनेकाः महत्त्वाकाङ्क्षिण्यः योजनाः आरभ्यन्ते।

मुख्यमन्त्री उक्तवान् यत् बेङ्गलूरुनगरस्य विश्वस्य श्रेष्ठ-पञ्च-कृत्रिमबुद्धिमत्ता-नगराणां मध्ये समावेशः तथा भारतस्य प्रायः चत्वारिंशत्-प्रतिशत-यूनिकॉर्न-नवोद्यमानां कर्नाटके स्थितिः राज्यस्य प्रतिभायाः, सुदृढ-नवाचार-पारिस्थितिक-तन्त्रस्य तथा उद्यमशीलतायाः प्रमाणम् अस्ति। सः उक्तवान् यत् कर्नाटकः दीर्घकालात् देशस्य प्रौद्योगिकी-क्षेत्रस्य नेतृत्वं करोति, अधुना च कृत्रिमबुद्धिमत्ता-क्षेत्रेऽपि वैश्विक-परिचयं स्थापयितुं राज्यस्य लक्ष्यं वर्तते।

डी.के.शिवकुमारः घोषितवान् यत् राज्यसर्वकारः देशस्य प्रथमं शासकीय-नेतृत्वयुक्तं कृत्रिमबुद्धिमत्ता-विश्वविद्यालयं तथा कृत्रिमबुद्धिमत्ता-नवाचार-केन्द्रं स्थापयिष्यति। भावि-आवश्यकतानां दृष्ट्या विद्यालय-स्तरादेव विद्यार्थिभ्यः कृत्रिमबुद्धिमत्तायाः शिक्षां प्रदास्यते, येन नूतन: वंश: उद्भवमान-प्रौद्योगिकीभिः सह स्वयम् अनुकूलयितुं समर्था भवेत्।

मुख्यमन्त्री अवदत् यत् कृत्रिमबुद्धिमत्ता-आधारित-अर्थव्यवस्थायाः सुदृढाधार-निर्माणार्थं कर्नाटकस्य तटीय-प्रदेशेषु तथा बेङ्गलूरुनगरस्य समीपे अत्याधुनिकानि हरित-दत्तांश-केन्द्राणि विकसितानि भविष्यन्ति। एताभिः परियोजनाभिः राज्यस्य डिजिटल-अवसंरचना सुदृढा भविष्यति तथा उद्योगेभ्यः उच्चगुणवत्तायुक्ताः प्रौद्योगिकी-सुविधाः उपलब्धाः भविष्यन्ति।

मुख्यमन्त्री उक्तवान् यत् राज्यसर्वकारस्य ‘बियॉण्ड् बेङ्गलूरु’ इति प्रयत्नस्य अन्तर्गतं मैसूरु, मङ्गलूरु, हुब्बली-धारवाड, बेलगावी तथा कलबुर्गी इत्येते विश्वस्तरीय-प्रौद्योगिकी-केन्द्ररूपेण विकसिताः भविष्यन्ति। अनेन बेङ्गलूरुनगरस्य उपरि भारः न्यूनीभविष्यति तथा राज्यस्य अन्येषां प्रदेशानां युवभ्यः अपि वैश्विक-स्तरस्य रोजगार-, निवेश- तथा नवाचार-अवसराः प्राप्स्यन्ति।

डी.के. शिवकुमारः उक्तवान् यत् प्रौद्योगिक्याः उद्देश्यं मानवस्य स्थानग्रहणं न, अपितु जनानां जीवनं श्रेष्ठतरं सुविधाजनकं च कर्तुम् अस्ति। राज्यसर्वकारः कृषकेभ्यः कन्नड-भाषायां कृत्रिमबुद्धिमत्ता-आधारित-कृषि-परामर्श-सेवाः विकसिताः करिष्यति। एतदतिरिक्तं ग्रामीण-स्वास्थ्य-सेवानां सशक्तीकरणाय, शिक्षाव्यवस्थायाः उन्नयनाय तथा सार्वजनिक-सेवानां गुणवत्तावृद्धये अपि कृत्रिमबुद्धिमत्तायाः व्यापकः उपयोगः भविष्यति।

मुख्यमन्त्री ‘सर्वकारः प्रथमः ग्राहकः’ इति नीतेः अपि उल्लेखं कृत्वा उक्तवान् यत् राज्यसर्वकारः नवाचार-आधारित-नवोद्यमैः विकसितान् समाधानान् सर्वप्रथमम् अङ्गीकरिष्यति। अनेन नवोदित-उद्यमिभ्यः स्व-उत्पादानां परीक्षणं, परिष्कारः तथा व्यापक-स्तरे विस्तारस्य अवसरः भविष्यति। सः विश्वासं व्यक्तवान् यत् नवाचारेण, समावेशी-विकासेन तथा दूरदर्शी-नीतिभिः कर्नाटकः भविष्येऽपि देशस्य प्रौद्योगिकी-नवाचार-क्षेत्रस्य नेतृत्वं करिष्यति।

Hindusthan Samachar / Divya Ranjan