केएमसी इत्यस्य परिशीलने निर्माणाधीनबहुतलीयपरियोजनासु रहस्योद्घाटनं, केवलं सप्तप्रतिशतं भवनेभ्योऽनुमतिः
तारातलानिर्माणशालागतायां दूर्घटनायां समीक्षायां 160 परियोजनानां परिशीलनं , 23 भवनेषु गंभीरापूर्णतासु प्राप्तासु निर्माणं तत्कालमवरोद्धुं निर्देशः कोलकाता, 14 जुलाई (हि.स.)। तारातलाक्षेत्रे निर्माणाधीनस्य त्रितलकोष्ठागारस्य पतनघटनानन्तरं कोलकातानगर
तारातल्ला दुर्घटना


तारातलानिर्माणशालागतायां दूर्घटनायां समीक्षायां 160 परियोजनानां परिशीलनं , 23 भवनेषु गंभीरापूर्णतासु प्राप्तासु निर्माणं तत्कालमवरोद्धुं निर्देशः

कोलकाता, 14 जुलाई (हि.स.)। तारातलाक्षेत्रे निर्माणाधीनस्य त्रितलकोष्ठागारस्य पतनघटनानन्तरं कोलकातानगरनिगमेन प्रारब्धायां व्यापकपरीक्षणप्रक्रियायां महत्त्वपूर्णं तथ्यं प्रकाशम् आगतम्। निगमस्य उच्चस्तरीयसमित्याः परीक्षितेषु निर्माणाधीनेषु षष्ट्यधिकशतसंख्याकेषु बहुतलभवनेषु केवलम् एकादशपरियोजनाः एव नियमानुसारिण्यः अभवन्। अर्थात् केवलं षट्दशमलवाष्टसप्ततिप्रतिशतपरियोजनाः एव समितेः अनुमोदनम् अलभन्त।

कोलकातानगरनिगमस्य आयुक्ता स्मितापाण्डे उच्चस्तरीयसमित्याः प्रतिवेदनम् अगृह्णात्। मङ्गलवासरस्य प्रातःकाले निगमस्य एकेन वरिष्ठाधिकारिणा उक्तं यत् परीक्षायां निर्माणाधीनानां षष्ट्यधिकशतसंख्याकानां परियोजनानां स्थलीयनिरीक्षणं कृतम्, तेषु केवलम् एकादशभवनानि एव निर्धारितमानदण्डेषु सफलानि अभवन्। समित्या ज्ञातं यत् बहुषु परियोजनासु निर्माणसम्बद्धनियमानां पालनं न कृतम्।

परीक्षणकाले त्रयोविंशतिनिर्माणाधीनबहुतलभवनेषु गम्भीराः अनियमितताः प्रमादाश्च प्रकाशम् आगताः। तेषु निकृष्टनिर्माणसामग्रीणाम् उपयोगः, श्रमिकाणां सुरक्षायाः उपेक्षा, भवननिर्माणसंहितायाः सुरक्षामानदण्डानां च उल्लङ्घनम् अन्तर्भवति। आयुक्तया स्मितापाण्डे उक्तं यत् यथा एतासु परियोजनासु कार्यं क्रियमाणम् आसीत्, तेन कदापि महती दुर्घटना भवितुम् अर्हतीति सम्भावना न निराकर्तुं शक्यते।

एतासां त्रुटीनां दृष्ट्या कोलकातानगरनिगमेन सम्बद्धासु त्रयोविंशतिपरियोजनासु निर्माणकार्यं तत्क्षणात् स्थगयितुं निर्देशाः प्रदत्ताः। एतासां परियोजनानां सञ्चिकाः सम्बद्धविकासकर्तृभ्यः प्रवर्तकेभ्यश्च आवश्यकसंशोधनार्थं प्रत्यर्पिताः। यावत् सर्वाः न्यूनताः नियमानुसारं न परिष्क्रियन्ते तावत् एतेषु स्थलेषु किमपि निर्माणकार्यं न भविष्यति।

कोलकातानगरनिगमस्य सूत्राणां अनुसारं गतत्रिवर्षेषु नगरे बहुतलभवननिर्माणार्थं कुलम् त्रिशतचतुश्चत्वारिंशदधिकचत्वारिशतसंख्याकाः आवेदनपत्राणि प्राप्तानि। प्रथमचरणे द्विशतनिर्माणाधीनपरियोजनाः चिह्निताः, तासु षष्ट्यधिकशतसंख्याकस्थलानां स्थलीयनिरीक्षणं सम्पन्नम्। अवशिष्टपरियोजनानां परीक्षणम् अग्रे अपि निरन्तरं भविष्यति।

प्रतिवेदनानुसारम् एकचत्वारिंशत् अन्यनिर्माणाधीनबहुतलपरियोजनानाम् अङ्केक्षणप्रतिवेदनानि तकनीकीउपसमितये प्रेषितानि। उपसमितेः परीक्षणानन्तरम् अनुमोदनं प्राप्ते सति एव एतासां परियोजनानां विषये अग्रिमनिर्णयः क्रियिष्यते।

उल्लेखनीयम् अस्ति यत् गतमासे तारातलाक्षेत्रे निर्माणाधीनस्य त्रितलकोष्ठागारस्य पतनात् षोडशजनानां मृत्युः अभवत्। अस्याः दुर्घटनायाः अनन्तरं कोलकातानगरनिगमेन स्वाधिकारक्षेत्रे प्रचलन्तीनां सर्वासां निर्माणाधीनबहुतलपरियोजनानां पुनः समीक्षा कर्तुम् आदेशः प्रदत्तः, येन निर्माणकार्ये सुरक्षामानदण्डानां पालनं स्वीकृतिप्रक्रियायाः पारदर्शिता च सुनिश्चिता भवेत्।

Hindusthan Samachar / Dheeraj Maithani